पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर्द्विजैः । कौशल्या-ज ! शशाऽऽदीनां तेषां नैकोऽप्यहं कपिः ॥
Metre: अनुष्टुप्
कथं दुष्ठुः स्वयं धर्मे प्रजास्त्वं पालयिष्यसि ।आत्माऽनुजस्य जिह्रेषि सौमित्रेस्त्वं कथं न वा ॥
Metre: अनुष्टुप्
मन्ये किं-जमहं घ्नन्तं त्वाम-क्षत्त्रिय-जे रणे । लक्ष्मणाऽधिज ! दुर्वृत्त ! प्रयुक्तमनुजेन नः" ॥
Metre: अनुष्टुप्
प्रत्यूचे वालिनं रामो"नाऽकृतं कृतवानहम् । यज्वभिः सुत्वभिः पूवैर्जरद्भिश्च कपीष्वर ! ॥
Metre: अनुष्टुप्
ते हि जालैर्गले पाशैस्तिरश्चामुपसेदुषाम् ।ऊषुषां पर-दारैश्च सार्धं निधनमैषिषुः ॥
Metre: अनुष्टुप्
अहं तु षुष्रुवान्भ्रात्रा स्त्रियं भुक्तां कनीयसा ।उपेयिवाननूचानैर्निन्दितस्-त्वं लता-मृग ! ॥
Metre: अनुष्टुप्
अन्वनैषीत्ततो वाली त्रपा-वानिव राघवम्। । न्यक्षिपच्चाऽङ्गदं यत्नात्काकुत्स्थे तनयं प्रियं ॥
Metre: अनुष्टुप्
म्रियमाणः स सुग्रीवं प्रोचे सद्-भावमागतः । "संभाविष्याव एकस्यामभिजानासि मातरि ॥
Metre: अनुष्टुप्
अवसाव नगेन्द्रेषु यत्पास्यावो मधूनि च ।अभिजानीहि तत्सर्वं बन्धूनां समयो ह्ययम् ॥
Metre: अनुष्टुप्
दैवं न विदधे नूनं युगपत्सुखमावयोः । शश्वद्बहूव तद्दुःस्थं यतो न"इतिहाऽकरोत् ॥
Metre: अनुष्टुप्