कृत्वा वालि-द्रुहं रामो मालया स-विशेषणम्। ।अङ्गद-स्वं पुनर्हन्तुं कपिघ्नाऽऽह्वाययद्रणे ॥
Metre: अनुष्टुप्
तयोर्वानर-सेनान्योः संप्रहारे तनुच्छिदम् । वालिनो दूर-भाग्रामो बाणं प्राणाऽदमत्यजत् ॥
Metre: अनुष्टुप्
वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम् । बान्धवाऽऽक्रोशिनो भेजुरनाथाः ककुभो दश ॥
Metre: अनुष्टुप्
धिग्दाशरथिमित्यूचुर्मुनयो वन-वर्तिनः। ।उपेयुर्मधु-पायिन्यः क्रोशन्त्यस्तं कपि-स्त्रियः ॥
Metre: अनुष्टुप्
राममुच्चैरुपालब्ध शूर-मानी कपि-प्रभुः । व्रण-वेदनया ग्लायन्साधुं-मन्यम-साधुवत् ॥
Metre: अनुष्टुप्
"मृषाऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः ।अन्य-व्यासक्त-घातित्वाद्ब्रह्मघ्नां पाप-संमितः ॥
Metre: अनुष्टुप्
पाप-कृत्सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः । मामपापं दुराचार ! किं निहत्याऽभिधास्यसि ॥
Metre: अनुष्टुप्
अग्नि-चित्सोम-सुद्राजा रथ-चक्र-चिदाऽऽदिषु ।अनलेष्विष्टवान्कस्मान्न त्वयाऽपेक्षितः पिता ॥
Metre: अनुष्टुप्
मांस-विक्रयिणः कर्म व्याधस्याऽपि विगर्हितम् । मां घ्नता भवताऽकारि निःषङ्कं पाप-दृष्वना ॥
Metre: अनुष्टुप्
बुद्धिपूर्वं ध्रुवन्न त्वा राज-कृत्वा पिता खलम् । सहयुध्वानमन्येन योऽहिनो मामनागसम् ॥
Metre: अनुष्टुप्