धुन्वन्सर्व-पथीनं खे वितानं पक्षयोरसौ । मांस-शोणित-संदर्शं तुण्ड-घातमयुध्यत ॥
Metre: अनुष्टुप्
न बिभाय न जिह्राय न चक्लाम न विव्यथे ।आघ्नानो विध्यमानो वा रणान्निववृते न च ॥
Metre: अनुष्टुप्
पिशाच-मुख-धौरेयं स-च्छत्र-कवचं रथम् । युधि कद्-रथ-वद्भीमंबभञ्ज ध्वज-शालिनम् ॥
Metre: अनुष्टुप्
संत्रासयांचकाराऽरिं सुरान्पिप्राय पश्यतः । स त्याजयांचकाराऽरिं सीतां विंशति-बाहुना ॥
Metre: अनुष्टुप्
अ-सीतो रावणः कासांचक्रे शस्त्रैर्निराकुलः । भूयस्तं भेदिकांचक्रे नख-तुण्डाऽऽयुधः ख-गः ॥
Metre: अनुष्टुप्
हन्तुं क्रोध-वशादीहांचक्राते तौ परस्पसम् । न वा पलायांचक्रे विर्दयांचक्रे न राक्षसः ॥
Metre: अनुष्टुप्
उपासांचक्रिरे द्रष्टुं देव-गन्धर्व-किन्नराः । छलेन पक्षौ लोलूयांचक्रे क्रव्यात्पतत्रिणः ॥
Metre: अनुष्टुप्
प्रलुठितमवनौ विलोक्य कृत्तं दश-वदनः ख-चरोत्तमं प्रहृष्यन् । रथ-वरमधिरुह्य भीम-धुर्यं स्व-पुरमगात्परिगृह्य राम-कान्ताम् ॥
Metre: पुष्पिताग्रा