संगच्छ पौंस्नि ! स्त्रैणं मां युवानं तरुणी शुभे ! । राघवः प्रोष्य-पापीयान्जहीहि तम-किं-चनम् ॥
Metre: अनुष्टुप्
अश्नीत-पिबतीयन्ती प्रसिता स्मर-कर्मणि । वशे-कृत्य दश-ग्रीवं मोदस्व वर-मन्दिरे ॥
Metre: अनुष्टुप्
मा स्म भूर्ग्राहिणी भीरु ! गन्तुमुत्साहिनी भव ।उद्भासिनी च भूत्वा मे वक्षःसंमार्दिनी भव।" ॥
Metre: अनुष्टुप्
तां प्रातिकूलिकीं मत्वा जिहीर्षुर्भीम-विग्रहः । बाहूपपीडमाश्लिष्य जगाहे द्यां निशा-चरः ॥
Metre: अनुष्टुप्
त्रस्यन्तीं तां समादाय यतो रात्रिं-चराऽऽलयम् । तूष्णीं-भूय भयादासांचक्रिरे मृगपक्षिणः ॥
Metre: अनुष्टुप्
उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ । जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन् ॥
Metre: अनुष्टुप्
"द्विषन् ! वने-चराऽग्र्याणां त्वमादाय-चरो वने ।अग्रे-सरो जघन्यानां मा भूः पूर्व-सरो मम ॥
Metre: अनुष्टुप्
यशस्-कर-समाचारं ख्यातं भूवि दया-करम् । पितुर्वाक्य-करं रामं धिक्त्वां दुन्वन्तम-त्रपम् ॥
Metre: अनुष्टुप्
अहमन्त-करो नूनं ध्वान्तस्येव दिवा-करः । तव राक्षस ! रामस्य नेयः कर्म-करोपमः ॥
Metre: अनुष्टुप्
सतामरुष्-करं पक्षी वैर-कारं नराऽशिनम् । हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम् ॥
Metre: अनुष्टुप्