स आह—गच्छतु भवान् । अहमत्र स्थितस्त्वां प्रतिपालयिष्यामि । तथानुष्ठिते सोऽपि गच्छन्नेकाकी, ग्रीष्मार्क-प्रताप-सन्तप्त-तनुः पिपासाकुलितः सिद्धि-मार्ग-च्युत इतश्चेतश्च बभ्राम ।
अथ भ्राम्यन्, स्थलोपरि पुरुषमेकं रुधिर-प्लावित-गात्रं भ्रमच्-चक्र-मस्तकमपश्यत् । ततो द्रुततरं गत्वा तमवोचत्-भोः ! को भवान् ? किमेवं चक्रेण शिरसि तिष्ठसि ? तत्कथय मे यदि कुत्रचिज्जलमस्ति ।
एवं तस्य प्रवदतस्तच्चक्रं तत्-क्षणात्तस्य शिरसो ब्राह्मण-मस्तके चटितम् ।
स आह—ममाप्येवमेतच्छिरसि चटितम् ?
स आह—तत्कथय, कदैतदुत्तरिष्यति ? महती मे वेदना वर्तते ।
स आह—यदा त्वमिव कश्चिदधृत-सिद्ध-वर्तिरेवमागत्य, त्वामालापयिष्यति तदा तस्य मस्तकं चटिष्यति ।
स आह—कियान्कालस्तवैवं स्थितस्य ?
स आह—साम्प्रतं को राजा धरणी-तले ?
स आह—वीणा-वादन-पटुः वत्स-राजः ।