पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 101 to 110 of 367 verses
सुवर्णसिद्धिराह—

कथा ३ सिंह-कारक-मूर्ख-ब्राह्मण-कथा

कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राह्परं मित्र-भावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस्तु बुद्धिमान्केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन्मित्रैर्मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन्परितोष्यार्थोपार्जनं न क्रियते । तत्पूर्व-देशं गच्छावः ।

तथानुष्ठिते किञ्चिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो !अस्माकमेकश्चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन्नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् ।

ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस्ते विद्या नास्ति ।

ततस्तृतीयेनाभिहितम्-अहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात्प्रभृत्येकत्र क्रीडिताः । तदागच्छतु महानुभावोऽस्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च—

Verse 36
किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥
Metre: अनुष्टुप्

तथा च—

Verse 37
अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥
Metre: अनुष्टुप्

तदागच्छत्वेषोऽपीति ।

Showing 101 to 110 of 367 verses