कथा ३ सिंह-कारक-मूर्ख-ब्राह्मण-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मण-पुत्राह्परं मित्र-भावमुपगता वसन्ति स्म । तेषां त्रयः शास्त्र-पारङ्गताः परन्तु बुद्धि-रहिताः । एकस्तु बुद्धिमान्केवलं शास्त्र-पराङ्मुखः । अथ तैः कदाचिन्मित्रैर्मन्त्रितम्-को गुणो विद्यायाः, येन देशान्तरं गत्वा, भूपतीन्परितोष्यार्थोपार्जनं न क्रियते । तत्पूर्व-देशं गच्छावः ।
तथानुष्ठिते किञ्चिन्मार्गं गत्वा तेषां ज्येष्ठतरः प्राह-अहो !अस्माकमेकश्चतुर्थो मूढः । केवलं बुद्धिमान् । न च राज-प्रतिग्रहो बुद्ध्या लभ्यते, विद्यां विना । तन्नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् ।
ततो द्वितीयेनाभिहितम्-भोः सुबुद्धे ! गच्छ त्वं स्व-गृहं, यतस्ते विद्या नास्ति ।
ततस्तृतीयेनाभिहितम्-अहो, न युज्यते एवं कर्तुम् । यतो वयं बाल्यात्प्रभृत्येकत्र क्रीडिताः । तदागच्छतु महानुभावोऽस्मद्-उपार्जित-वित्तस्य सम-भागी भविष्यतीति । उक्तं च—
किं तया क्रियते लक्ष्म्या या वधूरिव केवला । या न वेश्येव सामान्या पथिकैरुपभुज्यते ॥
Metre: अनुष्टुप्
अयं निजः परो वेति गणना लघु-चेतसाम् । उदार-चरितानां तु वसुधैव कुटुम्बकम् ॥
Metre: अनुष्टुप्