तथानुष्ठिते तैर्मार्गाश्रितैरटव्यां मृत-सिंहस्यास्थीनि दृष्टानि । ततश्चैकेनाभिहितं-अहो !अद्य विद्या-प्रत्ययः क्रियते । किञ्चिदेतत्सत्त्वं मृतं तिष्ठति । तद्विद्या-प्रभावेण जीवन-सहितं कुर्मः । अहमस्थि-सञ्चयं करोमि ।
ततश्च तेनौत्सुक्यादस्थि-सञ्चयः कृतः । द्वितीयेन चर्म-मांस-रुधिरं संयोजितम् । तृतीयोऽपि यावज्जीवनं सञ्चारयति, तावत्सुबुद्धिना निषिद्धः-भोः तिष्ठतु भवान् । एष सिंहो निष्पाद्यते । यद्येनं सजीवं करिष्यसि ततः सर्वानपि व्यापादयिष्यति ।
इति तेनाभिहितः स आह—धिङ्मूर्ख ! नाहं विद्याया विफलतां करोमि ।
ततस्तेनाभिहितं-तर्हि प्रतीक्षस्व क्षणं यावदहं वृक्षमारोहामि ।
तथानुष्ठिते, यावत्सजीवः कृतस्तावत्ते त्रयोऽपि सिंहेनोत्थाय व्यापादिताः । स च पुनर्वृक्षादवतीर्य गृहं गतः । अतोऽहं ब्रवीमि-वरं बुद्धिर्न सा विद्या इति ।
अतः परमुक्तं स सुवर्णसिद्धिना—
अपि शास्त्रेषु कुशला लोकाचार-विवर्जिताः । सर्वे ते हास्यतां यान्ति यथा ते मूर्ख-पण्डिताः ॥
Metre: अनुष्टुप्
सोऽब्रवीत्- कथा ४ मूर्ख-पण्डित-कथा
कस्मिंश्चिदधिष्ठाने चत्वारो ब्राह्मणाः परस्परं मित्रत्वमापन्ना वसन्ति स्म । बाल-भावे तेषां मतिरजायत-भोः वेशान्तरं गत्वा विद्याया उपार्जनं क्रियते ।