शृगाल आह— माम ! मैवं वद । मद्-भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिदपरस्य तत्र प्रवेशः । परममनेनैव दोषेण रजक-कदर्थितास्तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमापन्ना यौवनोत्कटा इदं मामूचुः-यदि त्वमस्माकं सत्यो मातुलस्तदा कंचिद्ग्रामान्तरं गत्वास्मद्-योग्यं कश्चित्पतिमानय । तद्-अर्थे त्वामहं तत्र नयामि ।
अथ शृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस्तमवोचत्-भद्र ! यद्येवं तद्-अग्रे भव येनागच्छामि । अथवा साध्विदमुच्यते—
नामृतं न विषं किञ्चिदेकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः ॥
Metre: अनुष्टुप्
यासां नाम्नापि कामः स्यात्सङ्गमं दर्शनं विना । तासां दृक्-सङ्गमं प्राप्य यन्न द्रवति कौतुकम् ॥
Metre: अनुष्टुप्
तत्रानुष्ठिते शृगालेन सह सिंहान्तिकमागतः । सिंहोऽपि व्यथाकुलितस्तं दृष्ट्वा यावत्समुत्तिष्ठति तावद्रासभः पलायितुमारब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस्तमुवाच-भोः ! किमेवंविधः प्रहारस्ते । यद्गर्दभोऽपि तव पुरतो बलाद्गच्छति । तत्कथं गजेन सह युद्धं करिष्यसि ? तद्दृष्टं ते बलम् ।
अथ सविलक्ष-स्मितं सिंह आह—भोः ! किमहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजोऽपि मत्-क्रमाक्रान्ता न गच्छति ।
शृगाल आह—अद्याप्येक-वारं तवान्तिके तमानेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् ।
सिंह आह—भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथमत्रागमिष्यति ? तदन्यत्किमपि सत्त्वमन्विष्यताम् ।
शृगाल आह—किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस्तिष्ठ ।