यो न रक्षति वित्रस्तान्पीड्यमानान्परैः सदा । जन्तून्पार्थिव-रूपेण स कृतान्तो न संशयः ॥
Metre: अनुष्टुप्
यदि न स्यान्नरपतिः सम्यङ्नेताः ततः प्रजाः । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥
Metre: अनुष्टुप्
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे । अप्रवक्तारमाचार्यमनधीयानम् ऋत्विजम् ॥
Metre: अनुष्टुप्
अरक्षितारं राजानं भार्यां चापिर्य-वादिनीम् । ग्राम-कामं च गोपालं वन-कामं च नापितम् ॥
Metre: अनुष्टुप्
तत्, सञ्चित्यान्यः कश्चिद्राजा विहङ्गमानां क्रियतामिति । अथ तैर्भद्राकारमुलूकमवलोक्य सर्वैरभिहितम्-यदेष उलूको राजास्माकं भविष्यति, तदानीयन्तां नृपाभिषेक-सम्बन्धिनः सम्भाराः इति ।
अथ साधिते विविध-तीर्थोदके, प्रगुणीकृतेऽष्टोत्तर-शत-मूलिका-सङ्घाते प्रदत्ते सिंहासने, वर्तिते सप्तद्वीप-समुद्र-भूधर-विचित्रे धरित्री-मण्डले, प्रस्तारिते व्याघ्र-चर्मणि आपूरितेषु हेम-कुम्भेषु दीपेषु वाद्येषु च सज्जीकृतेषु दर्पणादिषु माङ्गल्य-वस्तुषु, पठत्सु वन्दि-मुख्येषु, वेदोच्चारण-परेषु समुदित-मुखेषु ब्राह्मणेषु, गीत-परे युवति-जने,आनीतायामग्र-महिष्यां कृकालिकायाम्,उलूकोऽभिषेकार्थं यावत्सिंहासने उपविशति तावत्कुतोऽपि वायसः समायातः सोऽचिन्तयत्-अहो ! किमेष सकल-पक्षि-समागमो महोत्सवश्च ?अथ ते पक्षिणस्तं दृष्ट्वा मिथः प्रोचुः । पक्षिणां मध्ये वायसश्चतुरः श्रूयते । उक्तं च—
नराणां नापितो धूर्तः पक्षिणां चैव वायसः । दंष्ट्रिणां च शृगालस्तु श्वेभिक्षुस्तपस्विनाम् ॥
Metre: अनुष्टुप्
तदस्यापि वचनं ग्राह्यम् । उक्तं च—
बहुधा बहुभिः सार्धं चिन्तिताः सुनिरूपिताः । कथञ्चिन्न विलीयन्ते विद्वद्भिश्चिन्तिता नयाः ॥
Metre: अनुष्टुप्
अथ वायसः समेत्य तानाह-अहो ! किं महाजन-समागमोऽयं परम-महोत्सवश्च ।