उच्छेद्यमपि विद्वांसो वर्धयन्त्यरिमेकदा । गुडेन वर्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥
Metre: अनुष्टुप्
स्त्रीणां शत्रोः कुमित्रस्य पण्य-स्त्रीणां विशेषतः । यो भवेदेक-भावोऽत्र न स जीवति मानवः ॥
Metre: अनुष्टुप्
कृत्यं देव-द्विजातीनामात्मनश्च गुरोस्तथा । एक-भावेन कर्तव्यं शेषं द्वैध-समाश्रितम् ॥
Metre: अनुष्टुप्
एको भावः सदा शस्तो यतीनां भावितात्मनाम् । श्री-लुब्धानां न लोकानां विशेषेण मही-भुजाम् ॥
Metre: अनुष्टुप्
तद्द्वैधीभावं संश्रितस्य तव स्व-स्थाने वासो भविष्यति, लोभाश्रयाच्च शत्रुमुच्चाटयिष्यसि अपरं-यदि किञ्चिच्छिद्रं तस्य पश्यसि, तद्गत्वा व्यापादयिष्यसि ।
मेघवर्ण आह—तात मया सोऽविदित संश्रयः । तत्कथं तस्य छिद्रं ज्ञास्यामि ?
स्थिरजीव्याह-वत्स ! न केवलं स्थानं, छिद्राण्यपि तस्य प्रकटीकरिष्यामि प्रणधिभिः । उक्तं च—
गावो गन्धेन पश्यन्ति वेदैः पश्यन्ति वै द्विजाः । चारै पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥
Metre: अनुष्टुप्