पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 101 to 110 of 601 verses
Verse 67
यस्तीर्थानि निजे पक्षे पर-पक्षे विशेषतः । गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥
Metre: अनुष्टुप्

मेघवर्ण आह—तात, कानि तीर्थान्युच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत्सर्वं निवेद्यतामिति ।

स आह—अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैर्ज्ञातैः स्व-पक्षः पर-पक्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति—

Verse 68
कच्चिदष्टदशान्येषु स्व-पक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥
Metre: अनुष्टुप्

तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद्यदि तेषां कुत्सितं भवति तत्स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्यादिति । तद्यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः,अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः,आचार्यः,अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च—

Verse 69
वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश्चराः । तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥
Metre: अनुष्टुप्

तथा च—

Verse 70
कृत्वा कृत्य-विदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदाङ्कुर्वन्तु महतस्तलं विद्विषद्-अम्भसः ॥
Metre: अनुष्टुप्

एवं मन्त्रि-वाक्यमाकर्ण्यात्रान्तरे मेघवर्ण आह—तात !अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ?

स आह—वत्स ! कदाचिद्धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । अहो अस्माकं तावद्वैनतेयो राजा, स च वासुदेव-भक्तो न कामपि चिन्तामस्माकं करोति । तत्किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च—

Showing 101 to 110 of 601 verses