यस्तीर्थानि निजे पक्षे पर-पक्षे विशेषतः । गुप्तैश्चारैर्नृपो वेत्ति न स दुर्गतिमाप्नुयात् ॥
Metre: अनुष्टुप्
मेघवर्ण आह—तात, कानि तीर्थान्युच्यन्ते ? कति सङ्ख्यानि च ? कीदृशा गुप्तचराः ? तत्सर्वं निवेद्यतामिति ।
स आह—अत्र विषये भगवता नारदेन युधिष्ठिरः प्रोक्तः । यच्छत्रु-पक्षेऽष्टादश-तीर्थानि, स्व-पक्षे पञ्चदश । त्रिभिस्त्रिभिर्गुप्तचरैस्तानि ज्ञेयानि । तैर्ज्ञातैः स्व-पक्षः पर-पक्षश्च वश्यो भवति । उक्तं च नारदेन युधिष्ठिरं प्रति—
कच्चिदष्टदशान्येषु स्व-पक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥
Metre: अनुष्टुप्
तीर्थ-शब्देनायुक्त-कर्माभिधीयते । तद्यदि तेषां कुत्सितं भवति तत्स्वामिनोऽभिघाताय, यदि प्रधानं भवति तद्-वृद्धये स्यादिति । तद्यथा-मन्त्री, पुरोहितः, सेनापतिः, युवराजः, दौवारिकः,अन्तर्वासिकः, प्रशासकः, समाहर्तृ-सन्निधातृ-प्रदेष्टृ-ज्ञापकाः, साधनाध्यक्षः, गजाध्यक्षः, कोशाध्यक्षः, दुर्गपाल-करपाल-सीमापाल-प्रोत्कट-भृत्याः । एषां भेदेन द्राग्रिपुः साध्यते । स्व-पक्षे च देवी, जननी, कञ्चुकी, मालिकः, शय्या-पालकः, स्पशाध्यक्षः, सांवत्सरिकः, भिषग्, ताम्बूल-वाहकः,आचार्यः,अङ्ग-रक्षकः, स्थान-चिन्तकः, छत्रधरः, विलासिनी । एषां वैर-द्वारेण स्व-पक्षे विघातः । तथा च—
वैद्य-सांवत्सराचार्याः स्व-पक्षेऽधिकृताश्चराः । तथाहि-तुण्डिकोन्मत्ताः सर्वं जानन्ति शत्रुषु ॥
Metre: अनुष्टुप्
कृत्वा कृत्य-विदस्तीर्थेष्वन्तः प्रणिधयः पदम् । विदाङ्कुर्वन्तु महतस्तलं विद्विषद्-अम्भसः ॥
Metre: अनुष्टुप्
एवं मन्त्रि-वाक्यमाकर्ण्यात्रान्तरे मेघवर्ण आह—तात !अथ किं निमित्तमेवंविधं प्राणान्तिकं सदैव वायसोलूकानां वैरम् ?
स आह—वत्स ! कदाचिद्धंस-शुक-कोकिल-चातक-उलूक-मयूर-कपात-पारावत-विष्किर-प्रभृतयः सर्वेऽपि पक्षिणः समेत्य सोद्वेगं मन्त्रयितुमारब्धाः । अहो अस्माकं तावद्वैनतेयो राजा, स च वासुदेव-भक्तो न कामपि चिन्तामस्माकं करोति । तत्किं तेन वृथास्वामिना ? यो लुब्धक-पाशैर्नित्यं निबध्यमानानां न रक्षां विधत्ते । उक्तं च—