ते प्रोचुः-भोः ! नास्ति कश्चिद्विहङ्गमानां राजा, तदस्योलूकस्य विहङ्ग-राज्याभिषेको निरूपितस्तिष्ठति समस्त-पक्षिभिः । तत्त्वमपि स्व-मतं देहि । प्रस्तावे समागतोऽसि ।
अथासौ काको विहस्याह-अहो ! न युक्तमेतत् । यन्मयूर-हंस-कोकिल-चक्रवाक-शुक-कारण्डव-हारीत-सारसादिषु पक्षि-प्रधानेषु विद्यमानेषु दिवान्धस्यास्य कराल-वक्त्रस्याभिषेकः क्रियते । तत्रैतन्मम मतम् । यतः—
वक्र-नासं सुजिह्माक्षं क्रूरमप्रिय-दर्शनम् । अक्रुद्धस्येदृशं वक्त्रं भवेत्क्रुद्धस्य कीदृशम् ॥
Metre: अनुष्टुप्
स्वभाव-रौद्रमत्युग्रं क्रूरमप्रिय-वादिनम् । उलूकं नृपतिं कृत्वा का नः सिद्धिर्भविष्यति ॥
Metre: अनुष्टुप्
अपरं वैनतेये स्वामिनि स्थिते किमेष दिवान्धः क्रियते राजा ? तद्यद्यपि गुणवान्भवति, तथाप्येकस्मिन्स्वामिनि स्थिते नान्यो भूपः प्रशस्यते ।
एक एव हितार्थाय तेजस्वी पार्थिवो भुवः । युगान्त इव भास्वन्तो बहवोऽत्र विपत्तये ॥
Metre: अनुष्टुप्
तत्तस्य नाम्नापि यूयं परेषामगम्या भविष्यथ । उक्तं च—
गुरूणां नाम-मात्रेऽपि गृहीते स्वामि-सम्भवे । दुष्टानां पुरतः क्षेमं तत्-क्षणादेव जायते ॥
Metre: अनुष्टुप्
व्यपदेशेन महतां सिद्दिः सञ्जायते परा । शशिनो व्यपदेशेन वसन्ति शशकाः सुखम् ॥
Metre: अनुष्टुप्