स आह— कथा १ चतुर्दन्त-नाम-महा-गज-कथा
कस्मिंश्चिद्वने चतुर्दन्तो नाम महा-गजो यूथाधिपः प्रतिवसति स्म । तत्र कदाचिन्महत्यनावृष्टिः सञ्जाता प्रभूत-वर्षाणि यावत् । तया तडाग-ह्रद-पल्वल-सरांसि शोषमुपगतानि । अथ तैः समस्त-गजैः स गजराजः प्रोक्तः-देव ! पिपासाकुला गज-कलभा मृत-प्राया अपरे मृताश्च । तदन्विष्यतां कश्चिज्जलाशयो यत्र जल-पानेन स्वस्थतां व्रजन्ति ।
ततश्चिरं ध्यात्वा तेनाभिहितम्-अस्ति महा-ह्रदो विविक्ते प्रदेशे स्थल-मध्य-गतः पाताल-गङ्गा-जलेन सदैव पूर्णः । तत्तत्र गम्यतांइति ।
तथानुष्ट्ःइते पञ्चरात्रमुपसर्पद्भिः समासादितस्तैः स ह्रदः । तत्र स्वेच्छया जलमवगाह्यास्तमनवेलायां निष्क्रान्ताः । तस्य च ह्रदस्य समन्ताच्छशक-बिलानि असङ्ख्यानि सुकोमल-भूमौ तिष्ठन्ति । तान्यपि समस्तैरपि तैर्गजैरितस्ततो भ्रमद्भिः परिभग्नानि । बहवः शशकाः भग्न-पाद-शिरो-ग्रीवा विहिताः । केचिन्मृताः केचिज्जीव-शेषा जाताः ।
अथ गते तस्मिन्गज-यूथे शशकाः सोद्वेगा गजपाद-क्षुण्ण-समावासाः केचिद्भग्न-पादाः । अन्ये जर्जरित-कलेवरा रुधिर-प्लुताः । अन्ये हत-शिशवो बाष्प-पिहित-लोचनाः समेत्य मिथो मन्त्रं चक्रुः-अहो विनष्टा वयम् । नित्यमेवैतद्गज-यूथमागमिष्यति यतो नान्यत्र जलमस्ति । तत्सर्वेषां नाशो भविष्यति । उक्तं च—
स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः । हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः ॥
Metre: अनुष्टुप्
तच्चिन्त्यतां कश्चिदुपायः । तत्रैकः प्रोवाच-गम्यतां देश-त्यागेन । किमन्यत् ?उक्तं च मनुना व्यासेन च—
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥
Metre: अनुष्टुप्
क्षेम्यां शस्य-प्रदां नित्यं पशु-वृद्धि-करीमपि । परित्यजेन्नृपो भूमिमात्मार्थमविचारयन् ॥
Metre: अनुष्टुप्