आपद्-अर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
Metre: अनुष्टुप्
ततश्चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत्क्रियतां तेषां कृते काचिद्विभीषिका । यत्कथमपि दैवान्न समायान्ति । उक्तं च—
निर्विषेणापि सर्पेण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥
Metre: अनुष्टुप्
अथान्ये प्रोचुः-यद्येवं ततस्तेषां महद्-विभीषिका-स्थानमस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश्चन्द्र-मण्डले निवसति । तत्प्रेष्यतां कश्चिन्मिथ्या-दूतो यूथाधिप-सकाशं यच्चन्द्रस्त्वामत्र ह्रद आगच्छन्तं निषेधयति, यतोऽस्मत्-परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेय-वचनात्कदापि निवर्तते । अथान्ये प्रोचुः-यद्येवं तदस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यतामिति । उक्तं च—
साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः । पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥
Metre: अनुष्टुप्
यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकमाचरेत् । मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥
Metre: अनुष्टुप्
तदन्विष्यतां यद्यस्माद्व्यसनादात्मनां सुनिर्मुक्तिः ।
अथान्ये प्रोचुः-अहो युक्तमेतत् । नान्यः कश्चिदुपायोऽस्माकं जीवितस्य । तथैव क्रियताम् ।
अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश्च । तथानुष्ठिते लम्बकर्णोऽपि गज-मार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच-भोः भोः दुष्ट-गज ! किमेवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन्नागन्तव्यं निवर्त्यतामिति ।