पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 141 to 150 of 601 verses
Verse 85
आपद्-अर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि । आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
Metre: अनुष्टुप्

ततश्चान्ये प्रोचुः-भोः ! पितृ-पैतामहं स्थानं न शक्यते सहसा त्यक्तुम् । तत्क्रियतां तेषां कृते काचिद्विभीषिका । यत्कथमपि दैवान्न समायान्ति । उक्तं च—

Verse 86
निर्विषेणापि सर्पेण कर्तव्या महती फटा । विषं भवतु मा वास्तु फटाटोपो भयङ्करः ॥
Metre: अनुष्टुप्

अथान्ये प्रोचुः-यद्येवं ततस्तेषां महद्-विभीषिका-स्थानमस्ति येन नागमिष्यन्ति । सा च चतुर-दूतायत्ता विभीषिका । यतो विजयदत्तो नामास्मत्-स्वामी शशकश्चन्द्र-मण्डले निवसति । तत्प्रेष्यतां कश्चिन्मिथ्या-दूतो यूथाधिप-सकाशं यच्चन्द्रस्त्वामत्र ह्रद आगच्छन्तं निषेधयति, यतोऽस्मत्-परिग्रहोऽस्य समन्ताद्वसति । एवमभिहिते श्रद्धेय-वचनात्कदापि निवर्तते । अथान्ये प्रोचुः-यद्येवं तदस्ति लम्बकर्णो नाम शशकः । स च वचन-रचना-चतुरो दूत-कर्मज्ञः । स तत्र प्रेष्यतामिति । उक्तं च—

Verse 87
साकारो निःस्पृहो वाग्मी नाना-शास्त्र-विचक्षणः । पर-चित्तावगन्ता च राज्ञो दूतः स इष्यते ॥
Metre: अनुष्टुप्

अन्यच्च—

Verse 88
यो मूर्खं लौल्य-सम्पन्नं राज-द्वारिकमाचरेत् । मिथ्या-वादं विशेषेण तस्य कार्यं न सिध्यति ॥
Metre: अनुष्टुप्

तदन्विष्यतां यद्यस्माद्व्यसनादात्मनां सुनिर्मुक्तिः ।

अथान्ये प्रोचुः-अहो युक्तमेतत् । नान्यः कश्चिदुपायोऽस्माकं जीवितस्य । तथैव क्रियताम् ।

अथ लम्बकर्णो गज-यूथाधिप-समीपे निरूपितो गतश्च । तथानुष्ठिते लम्बकर्णोऽपि गज-मार्गमासाद्यागम्यं स्थलमारुह्य तं गजमुवाच-भोः भोः दुष्ट-गज ! किमेवं लीलया निःशङ्कयात्र चन्द्र-ह्रद आगच्छसि ? तन्नागन्तव्यं निवर्त्यतामिति ।

Showing 141 to 150 of 601 verses