पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 141 to 150 of 451 verses
Verse 60
किं चन्दनैः स-कर्पूरैस्तुहिनैः किं च शीतलैः । सर्वे ते मित्र-गात्रस्य कलां नार्हन्ति षोडशीम् ॥
Metre: अनुष्टुप्

तथा च—

Verse 61
केनामृतमिदं सृष्टं मित्रमित्यक्षर-द्वयम् । आपदां च परित्राणं शोक-सन्ताप-भेषजम् ॥
Metre: अनुष्टुप्

तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान्निष्क्रम्य पुलकित-तनुरानन्दाश्रु-पूरित-नयनो मन्थरकः प्रोवाच-एह्येहि मित्र,आलिङ्गय माम् । चिर-कालान्मया त्वं न सम्यक्परिज्ञातः । तेनाहं सलिलान्तः-प्रविष्टः । उक्तं च—

Verse 62
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् । न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥
Metre: अनुष्टुप्

एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुक्तम्—

Verse 63
अमृतस्य प्रवाहैः किं काय-क्षालन-सम्भवैः । चिरान्मित्र-परिष्वङ्गो योऽसौ मूल्य-विवर्जितः ॥
Metre: अनुष्टुप्

एवं द्वावपि तौ विहितालिङ्गितौ परस्परं पुलकित-शरीरी वृक्षादधः समुपविष्टौ प्रोचतुरात्म-चरित्र-वृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाह-भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्-द्वितीयमिव जीवितम् । तत्किं बहुना—

Verse 64
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः । सिकता-रेणवो यद्वत्सङ्ख्यया परिवर्जिता ॥
Metre: अनुष्टुप्

Verse 65
गुणाः सङ्ख्या-परित्यक्तास्तद्वदस्य महात्मनः । परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥
Metre: अनुष्टुप्

Showing 141 to 150 of 451 verses