पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 151 to 160 of 451 verses
मन्थरक आह—किमस्य वैराग्य-कारणम् ?

वायस आह—पृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत्तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक !इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्य-कारणम् ।

सोऽब्रवीत्—

कथा १ हिरण्यक-ताम्रचूड-कथा

अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्-स्वामिन्, मठायतने सिद्धमन्नं मूषक-भयात्तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरागम्य किमपि नास्ति । तत्किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।

तदाकर्ण्याहं सकल-यूथ-परिवृतस्तत्-क्षणादेव तत्र गतः । उत्पत्य च तस्मिन्भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात्स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित्तेन मम रक्षणार्थं महान्यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षा-पात्रं ताडयति । अहमप्यभिक्षितेऽप्यन्ने प्रहार-भयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।

अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस्तस्य सुहृत्तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकमभ्यागत-क्रियया नियोजितः । ततश्च रात्रावेकत्र कुश-संस्तरे द्वावपि प्रसुप्तौ धर्म-कथां कथयितुमारब्धौ ।

अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्रचूड ! परिज्ञातः न त्वं सम्यक्सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च—

Verse 66
एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥
Metre: शार्दूलविक्रीडितम्

Verse 67
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः । तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥
Metre: अनुष्टुप्

Showing 151 to 160 of 451 verses