मन्थरक आह—किमस्य वैराग्य-कारणम् ?
वायस आह—पृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत्तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक !इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्य-कारणम् ।
कथा १ हिरण्यक-ताम्रचूड-कथा
अस्ति दक्षिणात्ये जनपदे महिलारोप्यं नाम नगरम् । तस्य नातिदूरे मठायतनं भगवतः श्री-महादेवस्य । तत्र च ताम्रचूडो नाम परिव्राजकः प्रतिवसति स्म । स च नगरे भिक्षाटनं कृत्वा प्राण-यात्रां समाचरति । भिक्षा-शेषं च तत्रैव भिक्षा-पात्रे निधाय तद्-भिक्षा-पात्रं नागदन्तेऽवलम्ब्य पश्चाद्रात्रौ स्वपिति । प्रत्यूषे च तद्-अन्नं कर्मकराणां दत्त्वा सम्यक्तत्रैव देवतायतने संमार्जनोपलेपन-मण्डनादिकं समाज्ञापयति । अन्यस्मिन्नहनि मम बान्धवैर्निवेदितम्-स्वामिन्, मठायतने सिद्धमन्नं मूषक-भयात्तत्रैव भिक्षा-पात्रे निहितं नागदन्तेऽवलम्बितं तिष्ठति सदैव । तद्वयं भक्षयितुं न शक्नुमः । स्वामिनः पुनरागम्य किमपि नास्ति । तत्किं वृथाटनेनान्यत्र । अद्य तत्र गत्वा यथेच्छं भुञ्जामहे तव प्रसादात् ।
तदाकर्ण्याहं सकल-यूथ-परिवृतस्तत्-क्षणादेव तत्र गतः । उत्पत्य च तस्मिन्भिक्षा-पात्रे समारूढः । तत्र भक्ष्य-विशेषाणि सेवकेभ्यो दत्त्वा पश्चात्स्वयमेव भक्षयामि । सर्वेषां तृप्तौ जातायां भूयः स्व-गृहं गच्छामि । एवं नित्यमेव तदन्नं भक्षयामि । परिव्राजकोऽपि यथा-शक्ति रक्षति । परं यदैव निद्रान्तरितो भवति, तदाहं तत्रारुह्यात्म-कृत्यं करोमि । अथ कदाचित्तेन मम रक्षणार्थं महान्यत्नः कृतः । जर्जर-वंशः समानीतः । तेन सुप्तोऽपि मम भयाद्भिक्षा-पात्रं ताडयति । अहमप्यभिक्षितेऽप्यन्ने प्रहार-भयादपसर्पामि । एवं तेन सह सकलां रात्रिं विग्रह-परस्य कालो व्रजति ।
अथान्यस्मिन्नहनि तस्य मठे बृहत्स्फिङ्-नामा परिव्राजकस्तस्य सुहृत्तीर्थ-यात्रा-प्रसङ्गेन पान्थः प्राघुणिकः समायातः । तं दृष्ट्वा प्रत्युत्थान-विधिना सम्भाव्य प्रतिपत्ति-पूर्वकमभ्यागत-क्रियया नियोजितः । ततश्च रात्रावेकत्र कुश-संस्तरे द्वावपि प्रसुप्तौ धर्म-कथां कथयितुमारब्धौ ।
अथ बृहस्फिक्-कथा-गोष्ठीषु स ताम्रचूडो मूषक-त्रासार्थं व्याक्षिप्त-मना जर्जर-वंशेन भिक्षा-पात्रं ताडयंस्तस्य शून्यं प्रतिवचनं प्रयच्छति । तन्-मयो न किञ्चिदुदाहरति । अथासावभ्यागतः परं कोपमुपागतस्तमुवाच-भोस्ताम्रचूड ! परिज्ञातः न त्वं सम्यक्सुहृत् । तेन मया सह साह्लादं न जल्पसि । तद्-रात्रावपि त्वदीयं मठं त्यक्त्वान्यत्र मञ्हे यास्यामि । उक्तं च—
एह्यागच्छ समाविशासनमिदं कस्माच्चिराद्दृश्यसे का वार्तेति सुदुर्बलोऽसि कुशलं प्रीतोऽस्मि ते दर्शनात् । एवं ये समुपागतान्प्रणयिनः प्रत्यालपन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा हर्म्याणि गन्तुं सदा ॥
Metre: शार्दूलविक्रीडितम्
गृही यत्रागतं दृष्ट्वा दिशो वीक्षेत वाप्यधः । तत्र ये सदने यान्ति ते शृङ्ग-रहिता वृषाः ॥
Metre: अनुष्टुप्