तदाकर्ण्य विस्मित-मना गज आह—भोः ! कस्त्वम् ?
स आह—अहं लम्बकर्णो नाम शशकश्चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्येव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च—
उद्यतेष्वपि शस्त्रेषु बन्धु-वर्ग-वधेष्वपि । पुरुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा स आह—भोः शशक ! तत्कथय भगवतश्चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते ।
स आह—भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत्किं न वेत्ति भवान् । यन्मम परिग्रहोऽयम् । तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्यत्र ह्रदे नागन्तव्यमिति सन्देशः ।
गज आह—अथ क्व वर्तते भगवान्स्वामी चन्द्रः ।
स आह—अत्र ह्रदे साम्प्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः ।
गज आह—यद्येवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि ।
शशक आह—आगच्छ मया सहैककी येन दर्शयामि ।
तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बमदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस्तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद्भूयोऽपि प्रभूतं कोपं करिष्यति ।