पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 151 to 160 of 601 verses
तदाकर्ण्य विस्मित-मना गज आह—भोः ! कस्त्वम् ?

स आह—अहं लम्बकर्णो नाम शशकश्चन्द्र-मण्डले वसामि । साम्प्रतं भगवता चन्द्रमसा तव पार्श्वे प्रहितो दूतः । जानात्येव भवान् । यथार्थ-वादिनो दूतस्य न दोषः करणीयः । दूत-मुखा हि राजानः सर्व एव । उक्तं च—

Verse 89
उद्यतेष्वपि शस्त्रेषु बन्धु-वर्ग-वधेष्वपि । पुरुषाण्यपि जल्पन्तो वध्या दूता न भूभुजा ॥
Metre: अनुष्टुप्

तच्छ्रुत्वा स आह—भोः शशक ! तत्कथय भगवतश्चन्द्रमसः सन्देशम् । येन सत्वरं क्रियते ।

स आह—भवतातीत-दिवसे यूथेन सहागच्छता प्रभूताः शशका निपातिताः । तत्किं न वेत्ति भवान् । यन्मम परिग्रहोऽयम् । तद्यदि जीवितेन ते प्रयोजनं तदा केनापि प्रयोजनेनाप्यत्र ह्रदे नागन्तव्यमिति सन्देशः ।

गज आह—अथ क्व वर्तते भगवान्स्वामी चन्द्रः ।

स आह—अत्र ह्रदे साम्प्रतं शशकानां भवद्-यूथ-मथितानां हत-शेषाणां समाश्वासनाय समायातस्तिष्ठति । अहं पुनस्तवान्तिकं प्रेषितः ।

गज आह—यद्येवं तद्दर्शय मे तं स्वामिनं येन प्रणम्यान्यत्र गच्छामि ।

शशक आह—आगच्छ मया सहैककी येन दर्शयामि ।

तथानुष्ठिते शशको निशा-समये तं ह्रद-तीरे नीत्वा जल-मध्ये स्थितं चन्द्र-बिम्बमदर्शयत् । आह च-भोः एष नः स्वामी जल-मध्ये समाधिस्थस्तिष्ठति तन्-निभृतं प्रणम्य व्रजेति । नो चेत्, समाधि-भङ्ग-भयाद्भूयोऽपि प्रभूतं कोपं करिष्यति ।

Showing 151 to 160 of 601 verses