हिरण्यक आह—यद्येवं तदहमपि त्वया सह गमिष्यामि । ममापि महद्दुःखं वर्तते ।
वायस आह—भोः ! तव किं दुःखम् ? तत्कथय ।
हिरण्यक आह—भोः ! बहु वक्तव्यमस्त्यत्र विषये । तत्रैव गत्वा सर्वं सविस्तरं कथयिष्यामि ।
वायस आह—अहं तावदाकाश-गतिः । तत्कथं भवतो मया सह गमनम् ?
स आह—यदि मे प्राणान्रक्षसि तदा स्व-पृष्ठमारोप्य मां तत्र प्रापयिष्यसि । नान्यथा मम गतिरस्ति ।
तच्छ्रुत्वा सानन्दं वायस आह—यद्येवं तद्धन्योऽहं यद्भवतापि सह तत्र कालं नयामि । अहं सम्पातादिकानषावुड्डीन-गति-विशेषान्वेद्मि । तत्समारोह मम पृष्ठं, येन सुखेन त्वां तत्-सरः प्रापयामि ।
हिरण्यक आह—उड्डीनानां नामानि श्रोतुमिच्छामि ।
सम्पातं विप्र-पातं च महा-पातं निपातनम् । वक्रं तिर्यक्तथा चोर्ध्वमष्टमं लघु-संज्ञकम् ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा हिरण्यकस्तत्-क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय सम्पातोड्डीन-प्रस्थितः क्रमेण तत्-सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देश-काल-विद-सामान्य-काकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थ-तरु-कोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तार-स्वरेण प्रोवाच-भो मन्थरक !आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च—