पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 121 to 130 of 451 verses
किं बहुना—

Verse 55
प्रीतिं निरन्तरां कृत्वा दुर्भेद्यां नख-मांसवत् । मूषको वायसश्चैव गतौ कृत्रिम-मित्रताम् ॥
Metre: अनुष्टुप्

एवं स मूषकस्तद्-उपकार-रञ्जितस्तथा विश्वस्तो यथा तस्य पक्ष-मध्ये प्रविष्टस्तेन सह सर्वदैव गोष्ठीं करोति । अथान्यस्मिन्नहनि वायसोऽश्रु-पूर्ण-नयनः समभ्येत्य सगद्गदं तमुवाच-भद्र हिरण्यक, विरक्तिः सञ्जाता मे साम्प्रतं देशस्यास्योपरि तदन्यत्र यास्यामि ।

हिरण्यक आह—भद्र किं विरक्तेः कारणम् ।

स आह—भद्र, श्रूयतां । अत्र देशे महत्यानावृष्ट्या दुर्भिक्षं सञ्जातम् । दुर्भिक्षत्वाज्जनो बुभुक्षा-पीडितः कोऽपि बलि-मात्रमपि न प्रयच्छति । अपरं गृहे गृहे बुभुक्षित-जनैर्विहङ्गानां बन्धनाय पाशाः प्रगुणीकृताः सन्ति । अहमप्यायुः-शेषतया पाशेन बद्ध उद्धरितोऽस्मि । एतद्विरक्तेः कारणम् æ । तेनाहं विदेशं चलित इति बाष्प-मोक्षं करोमि ।

हिरण्यक आह—अथ भवान्क्व प्रस्थितः ?

स आह—अस्ति दक्षिणा-पथे वन-गहन-मध्ये महासरः । तत्र त्वत्तोऽधिकः परम-सुहृत्कूर्मो मन्थरको नाम । स च मे मत्स्य-मांस-खण्डानि दास्यति । तद्-भक्षणात्तेन सह सुभाषित-गोष्ठी-सुखमनुभवन्सुखेन कालं नेष्यामि । नाहमत्र विहङ्गानां पाश-बन्धनेन क्षयं द्रष्टुमिच्छामि । उक्तं च—

Verse 56
अनावृष्टि-हते देशे सस्ये च प्रलयं गते । धन्यास्तात न पश्यन्ति देश-भङ्गं कुल-क्षयम् ॥
Metre: अनुष्टुप्

Verse 57
कोऽतिभारः समर्थानां किं दूरं व्यवसायिनाम् । को विदेशः सविद्यानां कः परः प्रिय-वादिनाम् ॥
Metre: अनुष्टुप्

Verse 58
विद्वत्त्वं च नृपत्वं च नैव तुल्यं कदाचन । स्व-देशे पूज्यते राजा विद्वान्सर्वत्र पूज्यते ॥
Metre: अनुष्टुप्

Showing 121 to 130 of 451 verses