पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 101 to 110 of 451 verses
अन्यच्च—

Verse 42
बृहस्पतेरपि प्राज्ञस्तस्मान्नैवात्र विश्वसेत् । य इच्छेदात्मनो बुद्धिमायुष्यं च सुखानि च ॥
Metre: अनुष्टुप्

तथा च—

Verse 43
सुसूक्ष्मेणापि रन्ध्रेण प्रविश्याभ्यन्तरं रिपुः । नाशयेच्च शनैः पश्चात्प्लवं सलिल-पूरवत् ॥
Metre: अनुष्टुप्

Verse 44
न विश्वसेदविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति ॥
Metre: अनुष्टुप्

Verse 45
न बध्यते ह्यविश्वस्तो दुर्बलोऽपि बलोत्कटैः । विश्वस्ताश्चाशु बध्यन्ते बलवन्तोऽपि दुर्बलैः ॥
Metre: अनुष्टुप्

Verse 46
सुकृत्यं विष्णु-गुप्तस्य मित्राप्तिर्भार्गवस्य च । बृहस्पतेरविश्वासो नीतिर्-सन्धिस्त्रिधा स्थितः ॥
Metre: अनुष्टुप्

तथा च—

Verse 47
महताप्यर्थ-सारेण यो विश्वसिति शत्रुषु । भार्यासु सुविरक्तासु तद्-अन्तं तस्य जीवितम् ॥
Metre: अनुष्टुप्

तच्छ्रुत्वा लघुपतनकोऽपि निरुत्तरश्चिन्तयामास-अहो, बुद्धि-प्रागल्भ्यमस्य नीति-विषये । अथवा स एवास्योपरि मैत्री-पक्षपातः । स आह—भो हिरण्यक !

Showing 101 to 110 of 451 verses