कृत्रिमं नाशमभ्येति वैरं द्राक्कृत्रिमैर्गुणैः । प्राण-दानं विना वैरं सहजं याति न क्षयम् ॥
Metre: अनुष्टुप्
वायस आह—भोः ! द्विविधस्य वैरस्य लक्षणं श्रोतुमिच्छामि । तत्कथ्यताम् ।
हिरण्यक आह—भोः ! कारणेन निर्वृतं कृत्रिमम् । तत्-तद्-अर्होपकार-करणाद्गच्छति । स्वाभाविकं पुनः कथमपि न गच्छति । तद्यथा नकुल-सर्पाणां, शष्पभुङ्-नखायुधानां, जल-वह्न्योः, देव-दैत्यानां, सारमेय-मार्जराणां,ईश्वर-दरिद्राणां, सपत्नीनां, सिंह-गजानां, लुब्धक-हरिणानां, श्रोत्रिय-भ्रष्ट-क्रियाणां, मूर्क-पण्डितानां, पतिव्रता-कुलटानां, सज्जन-दुर्जनानाम् । न कश्चित्केनापि व्यापादितः, तथापि प्राणान्सन्तापयन्ति ।
वायस आह—भोः !अकारणमेतत् । श्रूयतां मे वचनम्—
कारणान्मित्रतामेति कारणाद्याति शत्रुताम् । तस्मान्मित्रत्वमेवात्र योज्यं वैरं न धीमता ॥
Metre: अनुष्टुप्
तस्मात्कुरु मया सह समागमं मित्र-धर्मार्थम् ।
हिरण्यक आह—भोः, श्रूयतां नीति-सर्वस्वम्—
सकृद्दुष्टमपीष्टं यः पुनः सन्धातुमिच्छति । स मृत्युमुपगृह्णाति गर्भमश्वतरी यथा ॥
Metre: अनुष्टुप्
अथवा गुणवानहं, न मे कश्चिद्वैर-यातनां करिष्यति । एतदपि न सम्भाव्यम् । उक्तं च—
सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्मीमांसाकृतमुन्ममाथ सहसा हस्ती मुनिं जैमिनिम् । छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम् अज्ञानावृतचेतसामतिरुषा कोऽर्थस्तिरश्चां गुणैः ॥
Metre: शार्दूलविक्रीडितम्