मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥
Metre: अनुष्टुप्
लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षमवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्ग-सामग्री च । तदीदृगेव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद्विश्वसिमि चल-प्रकृतिश्च । तदाप्येनं मित्रं करोमि । उक्तं च—
अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥
Metre: अनुष्टुप्
एवं सम्प्रधार्य पादपादवतीर्य बिल-द्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान्-एह्येहि भो हिरण्यक,एहि ।
तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किमन्योऽपि कश्चित्कपोतो बन्धन-शेषस्तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ?
स आह—अहं लघुपतनको नाम वायसः ।
तच्छ्रुत्वा विशेषादन्तर्लीनो हिरण्यक आह—भोः ! द्रुतं गम्यतामस्मात्स्थानात् ।
वायस आह—अहं तव पार्श्वे गुरु-कार्येण समागतः । तत्किं न क्रियते मया सह दर्शनम् ?
हिरण्यक आह—न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनमिति ।
स आह—भोः ! चित्रग्रीवस्य मया तव सकाशात्पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत्कदाचिन्ममापि बन्धने जाते तव पार्श्वान्मुक्तैर्भविष्यति । तत्क्रियतां मया सह मैत्री ।