पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 61 to 70 of 451 verses
Verse 27
मित्रवान्साधयत्यर्थान्दुःसाध्यानपि वै यतः । तस्मान्मित्राणि कुर्वीत समानान्येव चात्मनः ॥
Metre: अनुष्टुप्

लघुपतनकोऽपि वायसः सर्वं तं चित्रग्रीव-बन्धु-मोक्षमवलोक्य विस्मितमना व्यचिन्तयत्-अहो बुद्धिरस्य हिरण्यकस्य शक्तिश्च दुर्ग-सामग्री च । तदीदृगेव विधि-विहङ्गानां बन्धन-मोक्षात्मकः । अहं च न कस्यचिद्विश्वसिमि चल-प्रकृतिश्च । तदाप्येनं मित्रं करोमि । उक्तं च—

Verse 28
अपि सम्पूर्णता-युक्तैः कर्तव्याः सुहृदो बुधैः । नदीशः परिपूर्णोऽपि चन्द्रोदयमपेक्षते ॥
Metre: अनुष्टुप्

एवं सम्प्रधार्य पादपादवतीर्य बिल-द्वारमाश्रित्य चित्रग्रीववच्छब्देन हिरण्यकं समाहूतवान्-एह्येहि भो हिरण्यक,एहि ।

तच्छब्दं श्रुत्वा हिरण्यको व्यचिन्तयत्-किमन्योऽपि कश्चित्कपोतो बन्धन-शेषस्तिष्ठति येन मां व्याहरति । आह च-भोः ! को भवान् ?

स आह—अहं लघुपतनको नाम वायसः ।

तच्छ्रुत्वा विशेषादन्तर्लीनो हिरण्यक आह—भोः ! द्रुतं गम्यतामस्मात्स्थानात् ।

वायस आह—अहं तव पार्श्वे गुरु-कार्येण समागतः । तत्किं न क्रियते मया सह दर्शनम् ?

हिरण्यक आह—न मेऽस्ति त्वया सह सङ्गमेन प्रयोजनमिति ।

स आह—भोः ! चित्रग्रीवस्य मया तव सकाशात्पाश-मोक्षणं दृष्टम् । तेन मम महती प्रीतिः सञ्जाता । तत्कदाचिन्ममापि बन्धने जाते तव पार्श्वान्मुक्तैर्भविष्यति । तत्क्रियतां मया सह मैत्री ।

Showing 61 to 70 of 451 verses