स आह—भोः, जानन्नपि किं पृच्छसि ?उक्तं च यतः—
यस्माच्च येन च यदा च यथा च यच्च यावच्च यत्र च शुभाशुभमात्म-कर्म । तस्माच्च तेन च तदा च तथा च तच्च तावच्च तत्र च कृतान्त-वशादुपैति ॥
Metre: वसन्ततिलका
तत्प्राप्तं मयैतद्बन्धनं जिह्वा-लौल्यात् । साम्प्राप्तं त्वं सत्वरं पाश-विमोक्षं कुरु । तदाकर्ण्य हिरण्यकः प्राह—
अर्धार्धाद्योजन-शतादामिषं वीक्षते खगः । सोऽपि पार्श्व-स्थितं दैवाद्बन्धनं न च पश्यति ॥
Metre: अनुष्टुप्
रवि-निशाकरयोर्ग्रह-पीडनं गज-भुजङ्ग-विहङ्गम-बन्धनम् । मतिमतां च निरीक्ष्य दरिद्रता विधिरहो बलवानिति मे मतिः ॥
Metre: द्रुतविलम्बितम्
व्योमैकान्त-विचारिणोऽपि विहगाः सम्प्राप्नुवन्त्यापदं बध्यन्ते निपुणैरगाध-सलिलान्मीनाः समुद्रादपि । दुर्नीतं किमिहास्ति किं च सुकृतं कः स्थान-लाभे गुणः कालः सर्व-जनान्प्रसारित-करो गृह्णाति दूरादपि ॥
Metre: शार्दूलविक्रीडितम्
एवमुक्त्वा चित्रग्रीवस्य पाशं छेत्तुमुद्यतं स तमाह-भद्र, मा मैवं कुरु । प्रथमं मम भृत्यानां पाश-च्छेदं कुरु । तदनु ममापि च ।
तच्छ्रुत्वा कुपितो हिरण्यकः प्राह-भोः ! न युक्तमुक्तं भवता । यतः स्वामिनोऽनन्तरं भृत्याः ।