स आह—भद्र, मा मैवं वद । मद्-आश्रयाः सर्व एते वराकाः । अपरं स्व-कुटुम्बं परित्यज्य समागताः । तत्कथमेतावन्-मात्रमपि संमानं न करोमि । उक्तं च—
यः संमानं सदा धत्ते भृत्यानां क्षितिपोऽधिकम् । वित्ताभावेऽपि तं दृष्ट्वा ते त्यजन्ति न कर्हिचित् ॥
Metre: अनुष्टुप्
विश्वासः सम्पदां मूलं तेन यूथपतिर्गजः । सिंहो मृगाधिपत्येऽपि न मृगैः परिवार्यते ॥
Metre: अनुष्टुप्
अपरं मम कदाचित्पाश-च्छेदे कुर्वतस्ते दन्त-भङ्गो भवति । अथवा दुरात्मा लुब्धकः सम्भ्येति । तन्नूनं नरक-पात एव । उक्तं च—
सदाचारेषु भृत्येषु संसीदत्सु च यः प्रभुः । सुखी स्यान्नरकं याति परत्रेह च सीदति ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा प्रहृष्टो हिरण्यकः प्राह-भोः, वेद्म्यहं राज-धर्मम् । परं मया तव परीक्षा कृता । तत्सर्वेषां पूर्वं पाश-च्छेदं करिष्यामि । भवानप्यनेन बहु-कपोत-परिवारेण भविष्यति । उक्तं च—
कारुण्यं संविभागश्च यथा भृत्येषु लक्ष्यते । चित्तेनानेन ते शङ्क्या त्रैलोक्यस्यापि नाथता ॥
Metre: अनुष्टुप्
एवमुक्त्वा सर्वेषां पाश-च्छेदं कृत्वा हिरण्यकश्चित्रग्रीवमाह-मित्र, गम्यतामधुना स्वाश्रयं प्रति । भूयोऽपि व्यसने प्राप्ते समागन्तव्यमिति ।
तान्सम्प्रेष्य पुनरपि दुर्गं प्रविष्टः । चित्रग्रीवोऽपि सपरिवारः स्वाश्रयमगमत् । अथवा साध्विदमुच्यते—