पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 71 to 80 of 451 verses
हिरण्यक आह—अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत्का त्वया सह मम मैत्री ? तद्गम्यताम् । मैत्री विरोध-भावात्कथम् ?उक्तं च—

Verse 29
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्ट-विपुष्टयोः ॥
Metre: अनुष्टुप्

तथा च—

Verse 30
यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः ॥
Metre: अनुष्टुप्

तद्गम्यतामिति ।

वायस आह—भो हिरण्यक !एषोऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततोऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यातिति ।

हिरण्यक आह—भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ?उक्तं च—

Verse 31
वैरिणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥
Metre: अनुष्टुप्

वायस आह—भोः ! त्वया सह दर्शनमपि नास्ति । कुतो वैरम् ? तत्किमनुचितं वदसि ?

हिरण्यक आह—द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत्सहज-वैरी त्वमस्माकम् । उक्तं च—

Showing 71 to 80 of 451 verses