हिरण्यक आह—अहो त्वं भोक्ता । अहं ते भोज्य-भूतः । तत्का त्वया सह मम मैत्री ? तद्गम्यताम् । मैत्री विरोध-भावात्कथम् ?उक्तं च—
ययोरेव समं वित्तं ययोरेव समं कुलम् । तयोर्मैत्री विवाहश्च न तु पुष्ट-विपुष्टयोः ॥
Metre: अनुष्टुप्
यो मित्रं कुरुते मूढ आत्मनोऽसदृशं कुधीः । हीनं वाप्यधिकं वापि हास्यतां यात्यसौ जनः ॥
Metre: अनुष्टुप्
वायस आह—भो हिरण्यक !एषोऽहं तव दुर्ग-द्वार उपविष्टः । यदि त्वं मैत्री न करोषि ततोऽहं प्राण-मोक्षणं तवाग्रे करिष्यामि । अथवा प्रायोपवेशनं मे स्यातिति ।
हिरण्यक आह—भोः ! त्वया वैरिणा सह कथं मैत्रीं करोमि ?उक्तं च—
वैरिणा न हि सन्दध्यात्सुश्लिष्टेनापि सन्धिना । सुतप्तमपि पानीयं शमयत्येव पावकम् ॥
Metre: अनुष्टुप्
वायस आह—भोः ! त्वया सह दर्शनमपि नास्ति । कुतो वैरम् ? तत्किमनुचितं वदसि ?
हिरण्यक आह—द्विविधं वैरं भवति । सहजं कृत्रिमं च । तत्सहज-वैरी त्वमस्माकम् । उक्तं च—