करटक आह— कथं वेत्ति भवान्यद्भयाविष्टोऽयं स्वामी ?
सोऽब्रवीत्- ज्ञेयं किमत्र ? यत उक्तं च—
उदीरितोऽर्थः पशुनापि गृहते हयाश्च नागाश्च वहन्ति चोदिताः । अनुक्तमप्यूहति पण्डितो जनः परेङ्गित-ज्ञान-फ्जला हि बुद्धयः ॥
Metre: उपजातिः
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च । नेत्र-वक्त्र-विकारैश्च लक्ष्यतेऽन्तर्गतं मनः ॥
Metre: अनुष्टुप्
तदद्यैनं भयाकुलं प्राप्य स्व-बुद्धि-प्रभावेन निर्भयं कृत्वा वशीकृत्य च निजां साचिव्य-पदवीं समासादयिष्यामि ।
करटक आह—अनभिज्ञो भवान्सेवा-धर्मस्य । तत्कथमेनं वशीकरिष्यसि ?
सोऽब्रवीत्- कथमहं सेवानभिज्ञः ? मया हि तातोत्सङ्गे क्रीडताभ्यागत-साधूनां नीति-शास्त्रं पठता यच्छ्रुतं सेवा-धर्मस्य सारं तद्हृदि स्थापितम् । श्रूयतां तच्चेदम्—
सुवर्ण-पुष्पितां पृथ्वीं विचिन्वन्ति नरास्त्रयः । शूरश्च कृत-विद्यश्च यश्च जानाति सेवितुम् ॥
Metre: अनुष्टुप्
सा सेवा या प्रभु-हिता ग्राह्या वाक्य-विशेषतः । आश्रयेत्पार्थिवं विद्वांस्तद्-द्वारेणैव नान्यथा ॥
Metre: अनुष्टुप्