सतां साप्तपदं मैत्रमित्याहुर्विबुधा जनाः । तस्मात्त्वं मित्रतां प्राप्तो वचनं मम तच्छृणु ॥
Metre: अनुष्टुप्
दुर्गस्थेनापि त्वया मया सह नित्यमेवालापो गुण-दोष-सुभाषित-गोष्ठी-कथाः सर्वदा कर्तव्याः, यद्येवं न विश्वसिषि ।
तच्छ्रुत्वा हिरण्यकोऽपि व्यचिन्तयत्-विदग्ध-वचनोऽयं दृश्यते लघुपतनकः सत्य-वाक्यश्च तद्युक्तमनेन मैत्री-करणम् । परं कदाचिन्मम दुर्गे चरण-पातोऽपि न कार्यः । उक्तं च—
भीत-भीतैः पुरा शत्रुर्मन्दं मन्दं विसर्पति । भूमौ प्रहेलया पश्चाज्जार-हस्तोऽङ्गनास्विव ॥
Metre: अनुष्टुप्
तच्छ्रुत्वा वायस आह—भद्र,एवं भवतु । ततः-प्रभृति तौ द्वावपि सुभाषित-गोष्ठी-सुखमनुभवन्तौ तिष्ठतः । परस्परं कृतोपकारौ कालं नयतः । लघुपतनकोऽपि मांस-शकलानि मेध्यानि बलिशेषाण्यन्यानि वात्सल्याहृतानि पक्वान्न-विशेषाणि हिरण्यकार्थमानयति । हिरण्यकोऽपि तण्डुलानन्यांश्च भक्ष्य-विशेषाल्लघुपतनकार्थं रात्रावाहृत्य तत्-कालायातस्यार्पयति । अथवा युज्यते द्वयोरप्येतत् । उक्तं च—
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति । भुङ्क्ते भोजायते चैव षड्-विधं प्रीति-लक्षणम् ॥
Metre: अनुष्टुप्
नोपकारं विना प्रीतिः कथञ्चित्कस्यचिद्भवेत् । उपयाचित-दानेन यतो देवा अभीष्टदाः ॥
Metre: अनुष्टुप्
तावत्प्रीतिर्भवेल्लोके यावद्दानं प्रदीयते । वत्सः क्षीर-क्षयं दृष्ट्वा परित्यजति मातरम् ॥
Metre: अनुष्टुप्
पश्य दानस्य माहात्म्यं सद्यः प्रत्यय-कारकम् । यत्-प्रभावादपि द्वेषो मित्रतां याति तत्-क्षणात् ॥
Metre: अनुष्टुप्
पुत्रादपि प्रियतरं खलु तेन दानं मन्ये पशोरपि विवेक-विवर्जितस्य । दत्ते खले तु निखिलं खलु येन दुग्धं नित्यं ददाति महिषी ससुतापि पश्य ॥
Metre: वसन्ततिलका