पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 131 to 140 of 1051 verses
Verse 82
सव्य-दक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः । कस्तत्र क्षणमप्यार्यो विद्यमान-गतिर्भवेत् ॥
Metre: अनुष्टुप्

Verse 83
काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाम-मात्रोऽपि तिष्ठति ॥
Metre: अनुष्टुप्

Verse 84
परीक्षका यत्र न सन्ति देशे नार्घन्ति रत्नानि समुद्रजानि । आभीर-देशे किल चन्द्रकान्तं त्रिभिर्वराटैर्विपणन्ति गोपाः ॥
Metre: उपजातिः

Verse 85
लोहिताख्यस्य च मणेः पद्मरागस्य चान्तरम् । यत्र नास्ति कथं तत्र क्रियते रत्न-विक्रयः ॥
Metre: अनुष्टुप्

Verse 86
निर्विशेषं यदा स्वामी समं भृत्येषु वर्तते । तत्रोद्यम-समर्थानामुत्साहः परिहीयते ॥
Metre: अनुष्टुप्

Verse 87
न विना पार्थिवो भृत्यैर्न भृत्याः पार्थिवं विना । तेषां च व्यवहारोऽयं परस्पर-निबन्धनः ॥
Metre: अनुष्टुप्

Verse 88
भृत्यैर्विना स्वयं राजा लोकानुग्रह-कारिभिः । मयूखैरिव दीप्तांशुस्तेजस्व्यपि न शोभते ॥
Metre: अनुष्टुप्

Verse 89
अरैः सन्धार्यते नाभिर्नाभौ चाराः प्रतिष्ठिताः । स्वामि-सेवकयोरेवं वृत्ति-चक्रं प्रवर्तते ॥
Metre: अनुष्टुप्

Verse 90
शिरसा विधृता नित्यं स्नेहेन परिपालिताः । केशा अपि विरज्यन्ते निःस्नेहाः किं न सेवकाः ॥
Metre: अनुष्टुप्

Verse 91
राजा तुष्टो हि भृत्यानामर्थ-मात्रं प्रयच्छति । ते तु संमान-मात्रेण प्राणैरप्युपकुर्वते ॥
Metre: अनुष्टुप्

Showing 131 to 140 of 1051 verses