साभ्युत्थान-क्रिया यत्र नालापा मधुराक्षराः । गुण-दोष-कथा नैव तत्र हर्म्यं न गम्यते ॥
Metre: अनुष्टुप्
तदेक-मठ-प्राप्त्यापि त्वं गर्वितः । त्यक्तः सुहृत्-स्नेहः । नैतद्वेत्सि यत्त्वया मठाश्रय-व्याजेन नरकोपार्जनं कृतम् । उक्तं च—
नरकाय मतिस्ते चेत्पौरोहित्यं समाचार । वर्षं यावत्किमन्येन मठ-चिन्तां दिन-त्रयम् ॥
Metre: अनुष्टुप्
तन्-मुखं, शोचितव्यस्त्वं गर्वं गतः । तदहं त्वदीयं मठं परित्यज्य यास्यामि ।
अथ तच्छ्रुत्वा भय-त्रस्त-मनास्ताम्रचूडस्तमुवाच-भो भगवन् ! मैवं वद । न त्वत्-समोऽन्यो मम सुहृत्कश्चिदस्ति । परं तच्छ्रूयतां गोष्ठी-शैथिल्य-कारणम् । एष दुरात्मा मूषकः प्रोन्नत-स्थाने धृतमपि भिक्षा-पात्रमुत्प्लुत्यारोहति, भिक्षा-शेषंच तत्रस्थं भक्षयति । तद्-अभावादेव मठे मार्जन-क्रियापि न भवति । तन्मूषक
मुहुर्मुहुस्ताडयामि । नान्यत्कारणमिति । अपरमेतत्कुतूहलं पश्यास्य दुर्तात्मनो यन्मार्जार-मर्कटादयोऽपि तिरस्कृता अस्योत्पतनेन ।
बृहत्स्फिगाह-अथ ज्ञायते तस्य बिलं कस्मिंश्चित्प्रदेशे ।
ताम्रचूड आह—भगवन्न वेद्मि सम्यक् ।
स आह—नूनं निधानस्योपरि तस्य बिलम् । निधानोष्मणा प्रकूर्दते । उक्तं च—
ऊष्मापि वित्तजो वृद्धिं तेजो नयति देहिनाम् । किं पुनस्तस्य सम्भोगस्त्याग-धर्म-समन्वितः ॥
Metre: अनुष्टुप्