अपि स्वल्पतरं कार्यं यद्भवेत्पृथिवी-पतेः । तन्न वाच्यं सभा-मध्ये प्रोवाचेदं बृहस्पतिः ॥
Metre: अनुष्टुप्
तदैकान्तिके मद्-विज्ञाप्यमाकर्णयन्तु देव-पादाः । यतः—
षट्-कर्णो भिद्यते मन्त्रश्चतुष्कर्णः स्थिरो भवेत् । तस्मात्सर्व-प्रयत्नेन षट्कर्णं वर्जयेत्सुधीः ॥
Metre: अनुष्टुप्
अथ पिङ्गलकाभिप्रायज्ञा व्याघ्र-द्वीपि-वृक-पुरःसरा सर्वेऽपि तद्-वचः समाकर्ण्य संसदि तत्-क्षणादेव दूरीभूताः । ततश्च दमनक आह—उदक-ग्रहणार्थं प्रवृत्तस्य स्वामिनः किमिह निवृत्त्यावस्थानम् ।
पिङ्गलक आह सविलक्ष-स्मितम्- न किञ्चिदपि ।
सोऽब्रवीत्- देव यद्यनाख्येयं तत्तिष्ठतु । उक्तं च—
दरिषु किञ्चित्स्वजनेषु किञ्चिद्गोप्यं वयस्येषु सुतेषु किञ्चित् । युक्तं न वा युक्तमिदं विचिन्त्य वदेद्विपश्चिन्महतोऽनुरोधात् ॥
Metre: उपजातिः
तच्छ्रुत्वा पिङ्गलकश्चिन्तयामास- योग्योऽयं दृश्यते । तत्कथयाम्येतस्याग्रे आत्मनोऽभिप्रायम् । उक्तं च—
स्वामिनि गुणान्तरज्ञे गुणवति भृत्येऽनुवर्तिनि कलये । सुहृदि निरन्तर-चित्ते निवेद्य दुःखं सुखी भवति ॥
Metre: उद्गीति (१२, १५, १२, १८)
भो दमनक शृणोषि शब्दं दूरान्महान्तम् ।