शक्ति-वैकल्य-नम्रस्य निःसारत्वाल्लघीयसः । जन्निमो मानहीनस्य तृणस्य च समा गतिः ॥
Metre: अनुष्टुप्
अन्य-प्रतापमासाद्य यो दृढत्वं न गच्छति । जतुजाभरणस्येव रूपेणापि हि तस्य किम् ॥
Metre: अनुष्टुप्
तदेवं ज्ञात्वा स्वामिना धैर्यावष्टम्भः कार्यः । न शब्द-मात्राद्भेतव्यम् । अपि च—
पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा । अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च ॥
Metre: अनुष्टुप्
कश्चिद्गोमायुर्नाम शृगालः क्षुत्क्षाम-कण्ठः इतस्ततः परिभ्रमन्वने सैन्य-द्वय-संग्राम-भूमिमपश्यत् । तस्यां च दुन्दुभेः पतितस्य वायु-वशाद्वल्ली-शाखाग्रैर्हन्यमानस्य शब्दमशृणोत् । अथ क्षुभित-हृदयश्चिन्तयामास अहो विनष्टोऽस्मि । तद्यावन्नास्य प्रोच्चारित-शब्दस्य दृष्टि-गोचरे गच्छामि तावदन्यतो व्रजामि । अथवा नैतद्युज्यते सहसैव ।