पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 171 to 180 of 1051 verses
सोऽब्रवीत्- स्वामिन्शृणोमि । तत्किम् ।

पिङ्गलक आह— भद्र अहमस्माद्वनाद्गन्तुमिच्छामि । दमनक आह— कस्मात् ।

पिङ्गलक आह - यतोऽद्यस्मद्-वने किमप्यपूर्वं सत्त्वं प्रविष्टं यस्यायं महा-शब्दः श्रूयते । तस्य च शब्दानुरूपेण पराक्रमेण भवितव्यमिति ।

दमनक आह— यच्-छब्द-मात्रादपि भयमुपगतः स्वामी तदप्ययुक्तम् । उक्तं च—

Verse 111
अम्भसा भिद्यते सेतुस्तथा मन्त्रोऽप्यरक्षितः । पैशुन्याद्भिद्यते स्नेहो भिद्यते वाग्भिरातुरः ॥
Metre: अनुष्टुप्

तन्न युक्तं स्वामिनः पूर्वोपार्जितं वनं त्यक्तुम् । यतो भेरी-वेणु-वीना-मृदङ्ग-ताल-पटह-शङ्ख-काहलादि-भेदेन शब्दा अनेक-विधा भवन्ति । तन्न केवलाच्छब्द-मात्रादपि भेतव्यम् । उक्तं च—

Verse 112
अत्युत्कटे च रौद्रे च शत्रौ प्राप्ते न हीयते । धैर्यं यस्य महीनाथो न स याति पराभवम् ॥
Metre: अनुष्टुप्

Verse 113
दर्शित-भयेऽपि धातरि धैर्य-ध्वंसो भवेन्न धीराणाम् । शोषित-सरसि निदाघे नितरामेवोद्धतः सिन्धुः ॥
Metre: आर्या (१२, १८, १२, १५)

तथा च—

Verse 114
यस्य न विपदि विषादः सम्पदि हर्षो रणे न भीरुत्वम् । तं भुवन-त्रय-तिलकं जनयति जननी सुतं विरलम् ॥
Metre: आर्या (१२, १८, १२, १५)

Showing 171 to 180 of 1051 verses