स आह— कथा ३ युधिष्ठिराख्य-कुम्भकार-कथा
कस्मिंश्चितधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित्प्रमादादर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन्पतितः । ततः खपर-कोट्या पाटित-ललाई᳡ओओ रुधिर-प्लावित-तनुः कृच्छ्रादुत्थाय स्वाश्रयं गतः । ततश्चापथ्य-सेवनात्स प्रहारस्तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः ।
अथ कदाचिद्दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद्राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सोऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्-वीरः पुरुषः कश्चिदयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः ।
अतस्तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास्तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान्न किञ्चिदूचुः ।
अथान्यस्मिन्नहनि तस्य भूपतेर्वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन्सङ्ग्रामे प्रहारोऽयं ते ललाटे लग्नः ?
स आह—देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालोऽहं प्रकृत्या । मद्-गेहेऽनेक-खर्पराण्यासन् । अथ कदाचिन्मद्य-पानं कृत्वा निर्गतः प्रधावन्खर्परोपरि पतितः । तस्य प्रहार-विकारोऽयं मे ललाटे एवं विकरालतां गतः ।
तदाकर्ण्य राजा स-व्रीडमाह-अहो वञ्चितोऽहं राजापुत्रानुकारिणानेन कुलालेन । तद्दीयतां द्रागेतस्य चन्द्रार्धः ।
तथानुष्ठिते कुम्भकार आह—मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् ।
राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च—