पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 121 to 130 of 327 verses
तथानुष्ठिते शृगालोऽपि यावद्रासभ-मार्गेण गच्छति, तावत्तत्रैव स्थाने चरन्दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ्मृत्यु-वशं गतः । तत्कथय किं तत्सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहारादहं मुक्तः ।

तच्छ्रुत्वा प्रहसन्शृगाल आह—भद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता । त्वं च कातरत्वान्नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नशतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तदागच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद्वदति-यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जलं वा प्रविशामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि इति । तत्प्रसादं कृत्वा तत्रागम्यताम् । नो चेत्तव स्त्री-हत्या भविष्यति । अपरं भगवान्काम-कोपं तवोपरि करिष्यति । उक्तं च—

Verse 36
स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्त-पटीकृताश्च जटिलाः कापालिकाश्चापरे ॥
Metre: शार्दूलविक्रीडितम्

अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते—

Verse 37
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् । कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥
Metre: अनुष्टुप्

अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात्तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत्स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत्कर्ण-हृदय-रहितो रासभस्तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालमाह-पाप ! किमिदमनुचितं कर्म समाचरितम् ? यत्कर्ण-हृदय-भक्षणेनायमुच्छिष्टतां नीतः ।

शृगालः स-विनयमाह-स्वामिन् ! मा मैवं वद । यत्कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽप्यागतः ।

अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस्तेनैव संविभज्य निःशङ्कित-मनास्तं भक्षितवान् ।

अतोऽहं ब्रवीमि-आगतश्च गतश्चैव इति । तन्मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्विदमुच्यते—

Verse 38
स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः । स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः ॥
Metre: अनुष्टुप्

Showing 121 to 130 of 327 verses