तथानुष्ठिते शृगालोऽपि यावद्रासभ-मार्गेण गच्छति, तावत्तत्रैव स्थाने चरन्दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ्मृत्यु-वशं गतः । तत्कथय किं तत्सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहारादहं मुक्तः ।
तच्छ्रुत्वा प्रहसन्शृगाल आह—भद्र ! रासभी त्वामायान्तं दृष्ट्वा सानुरागमालिङ्गितुं समुत्थिता । त्वं च कातरत्वान्नष्टः । सा पुनर्न शक्ता त्वां विना स्थातुम् । तया तु नशतस्तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तदागच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद्वदति-यल्लम्बकर्णो यदि मे भर्ता न भवति तदहमग्नौ जलं वा प्रविशामि । पुनस्तस्य वियोगं सोढुं न शक्नोमि इति । तत्प्रसादं कृत्वा तत्रागम्यताम् । नो चेत्तव स्त्री-हत्या भविष्यति । अपरं भगवान्काम-कोपं तवोपरि करिष्यति । उक्तं च—
स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद्रक्त-पटीकृताश्च जटिलाः कापालिकाश्चापरे ॥
Metre: शार्दूलविक्रीडितम्
अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयोऽपि तेन सह प्रस्थितः । अथवा साध्विदमुच्यते—
जानन्नपि नरो दैवात्प्रकरोति विगर्हितम् । कर्म किं कस्यचिल्लोके गर्हितं रोचते कथम् ॥
Metre: अनुष्टुप्
अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस्तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात्तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत्स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत्कर्ण-हृदय-रहितो रासभस्तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालमाह-पाप ! किमिदमनुचितं कर्म समाचरितम् ? यत्कर्ण-हृदय-भक्षणेनायमुच्छिष्टतां नीतः ।
शृगालः स-विनयमाह-स्वामिन् ! मा मैवं वद । यत्कर्ण-हृदय-रहितोऽयं रासभ आसीत्, तेनेहागत्य त्वामवलोक्य भूयोऽप्यागतः ।
अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस्तेनैव संविभज्य निःशङ्कित-मनास्तं भक्षितवान् ।
अतोऽहं ब्रवीमि-आगतश्च गतश्चैव इति । तन्मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्विदमुच्यते—
स्वार्थमुत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः । स स्वार्थाद्भ्रश्यते नूनं युधिष्ठिर इवापरः ॥
Metre: अनुष्टुप्