तच्छ्रुत्वा मकर आह—भो मित्र !अथवात्राहमनशनात्प्राण-त्यागं तवोपरि करिष्यामि ।
वानर आह—मूढ ! किमहं लम्बकर्णो मूर्खः ? दृष्ट्वापायोऽपि स्वयमेव तत्र गत्वात्मानं व्यापादयामि ।
आगतश्च गतश्चैव गत्वा यः पुनरागतः । अकर्ण-हृदयो मूर्खस्तत्रैव निधनं गतः ॥
Metre: अनुष्टुप्
मकर आह—भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायोऽपि मृतः ? तन्मे निवेद्यताम् । वानर आह— कथा २ कराल-केसर-कथा
कस्मिंश्चिद्वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारकोऽस्ति । अथ कदाचित्तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदमेकमपि चलितुं न शक्नोति । तस्याचलनाच्च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्नहनि तमवोचत्-स्वामिन् ! बुभुक्षय पीडितोऽहम् । पदात्पदमपि चलितुं न शक्नोमि । तत्कथं ते शुश्रूषां करोमि ?
सिंह आह—भोः ! गच्छ अन्वेषय किञ्चित्सत्त्वम् । येनेमामवस्थां गतोऽपि व्यापादयामि ।
तदाकर्ण्य शृगालोऽन्वेषयन्कञ्चित्समीप-वर्तिनं ग्राममासादितवान् । तत्र लम्बकर्णो नाम गर्दभस्तडागोपान्ते प्रविरल-दूर्वाङ्कुरान्कृच्छ्रादास्वादयन्दृष्टः । ततश्च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारोऽयं मदीयः सम्भाव्यताम् । चिराद्दृष्टोऽसि । तत्कथय किमेवं दुर्बलतां गतः ।
स आह—भो भगिनी-पुत्र ! किं कथयामि । रजकोऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिमपि न प्रयच्छति । केवलं दूर्वाङ्कुरान्धूइ-मिश्रितान्भक्षयामि । तत्कुतो मे शरीरे पुष्टिः ?
शृगाल आह—माम ! यद्येवं तदस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखमनुभवंस्तिष्ठ ।
लम्बकर्ण आह—भो भगिनी-सुत ! युक्तमुक्तं भवता । परं वयं ग्राम्याः पशवोऽरण्य-चारिणां वध्याः । तत्किं तेन भव्य-प्रदेशेन ।