पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 91 to 100 of 327 verses
Verse 31
किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक । स्व-पक्षस्य क्षये जाते को नस्त्राता भविष्यति ॥
Metre: अनुष्टुप्

तदद्यापि विचिन्त्यतामात्मनो निष्क्रमणमस्य वधोपायश्च । अथ गच्छता कालेन सकलमपि कवलितं मण्डूक-कुलम् । केवलमेको गङ्गदत्तस्तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितोऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद्दीयतां मे किञ्चिद्भोजनं यतोऽहं त्वयात्रानीतः ।

स आह—भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद्यदि मां प्रेषयति ततोऽन्य-कूप-स्थानपि मण्डूकान्विश्वास्यात्रानयामि ।

स आह—मम तावत्त्वमभक्ष्यो भ्रातृ-स्थाने । तद्यद्येवं करोषि तत्साम्प्रतं पितृ-स्थाने भवसि । तदेवं क्रियतामिति ।

सोऽपि तदाकर्ण्यार-घट्ट-घटिकामाश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस्तत्-कूपाद्विनिष्क्रान्तः । प्रियदर्शनोऽपि तद्-आकाङ्क्षया तत्रस्थः प्रतीक्षमाणस्तिष्ठति । अथ चिरादनागते गङ्गदत्ते प्रियदर्शनोऽन्य-कोटर-निवासिनीं गोधामुवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश्चिर-परिचितस्ते गङ्गदत्तः । तद्गत्वा तत्-सकाशं कुत्रचिज्जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यतामेकाकिनापि भवता द्रुततरं यद्यन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्यहं तव विरुद्धमाचरामि तत्सुकृतमन्तरे मया विधृतम् ।

गोधापि तद्-वचनाद्गङ्गदत्तं द्रुततरमन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस्तव मार्गं समीक्षमाणस्तिष्ठति । तच्छीघ्रमागम्यतामिति ।

अपरं च तेन तव विरूप-करणे सुकृतमन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तदाकर्ण्य गङ्गदत्त आह—

Verse 32
बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनरेति कूपम् ॥
Metre: उपजातिः

एवमुक्त्वा स तां विसर्जयामास ।

तद्भो दुष्ट-जलचर !अहमपि गङ्गदत्त इव त्वद्-गृहे न कथञ्चिदपि यास्यामि ।

Showing 91 to 100 of 327 verses