पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 91 to 100 of 367 verses
स आह—अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत्तवाहं दारिद्र्योपहतः सिद्ध-वर्तिमादायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश्च । ततश्चैतज्जातम् ।

स आह—भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिरासीत् ?

स आह—भद्र ! धनदेन निधान-हरण-भयात्सिद्धानामेतच्-चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिदपि नागच्छति । यदि कश्चिदायाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलमेवं वेदनामनुभवति इति । तदाज्ञापय मां स्व-गृहाय । इत्युक्त्वा गतः ।

तस्मिंश्चिरयति स सुवर्ण-सिद्धिस्तस्यान्वेषण-परस्तत्-पद-पङ्क्त्या यावत्किञ्चिद्वनान्तरमागच्छति तावद्रुधिर-प्लावित-शरीरस्तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्नुपविष्ठस्तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किमेतत् ?

स आह—विधि-नियोगः ।

स आह—कथं तत् ? कथय कारणमेतस्य ।

सोऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तमकथयत् ।

तच्छ्रुत्वासौ तं विगर्हयन्निदमाह-भोः ! निषिद्धस्त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत्किं क्रियते ? विद्यावानपि कुलीनोऽपि वस्तुतो बुद्धि-रहितोऽसि । अथवा साध्विदमुच्यते—

Verse 35
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥
Metre: अनुष्टुप्

चक्रधर आह—कथमेतत् ?

Showing 91 to 100 of 367 verses