स आह—अहं तावत्-काल-सङ्ख्यां न जानामि । परं यदा रामो राजासीत्तवाहं दारिद्र्योपहतः सिद्ध-वर्तिमादायानेन पथा समायातः । ततो मयान्यो नरो मस्तक-श्रुत-चक्रो दृष्टः, पृष्टश्च । ततश्चैतज्जातम् ।
स आह—भद्र ! कथं तदैवं स्थितस्य भोजन-जल-प्राप्तिरासीत् ?
स आह—भद्र ! धनदेन निधान-हरण-भयात्सिद्धानामेतच्-चक्र-पतन-रूपं भयं दर्शितम् । तेन कश्चिदपि नागच्छति । यदि कश्चिदायाति, स क्षुत्-पिपासा-निद्रा-रहितो जरा-मरण-वर्जितः केवलमेवं वेदनामनुभवति इति । तदाज्ञापय मां स्व-गृहाय । इत्युक्त्वा गतः ।
तस्मिंश्चिरयति स सुवर्ण-सिद्धिस्तस्यान्वेषण-परस्तत्-पद-पङ्क्त्या यावत्किञ्चिद्वनान्तरमागच्छति तावद्रुधिर-प्लावित-शरीरस्तीक्ष्ण-चक्रेण मस्तके भ्रमता स-वेदनः क्वणन्नुपविष्ठस्तिष्ठतीति ददर्श । ततः समीपवर्तिना भूवा सर्वार्थं पृष्टः-भद्र ! किमेतत् ?
स आह—कथं तत् ? कथय कारणमेतस्य ।
सोऽपि तेन पृष्टः । सर्वं चक्र-वृत्तान्तमकथयत् ।
तच्छ्रुत्वासौ तं विगर्हयन्निदमाह-भोः ! निषिद्धस्त्वं मयानेकशो न शृणोषि मे वाक्यम् । तत्किं क्रियते ? विद्यावानपि कुलीनोऽपि वस्तुतो बुद्धि-रहितोऽसि । अथवा साध्विदमुच्यते—
वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धि-हीनो विनश्यन्ति यथा ते सिंह-कारकाः ॥
Metre: अनुष्टुप्