पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 361 to 367 of 367 verses
अथ तस्य तं निश्चयं ज्ञात्वा समीपस्थ-वाप्याः सकाशात्कर्कटमादाय मात्राभिहितं-वत्स,अवश्यं यदि गन्तव्यम् । तदेष कर्कटोऽपि सहायो भवतु । तदेनं गृहीत्वा गच्छ ।

सोऽपि मातुर्वचनादुभाभ्यां पाणिभ्यां न सङ्गृह्य कर्पूर-पुटिका-मध्ये निधाय, पात्र-मध्ये संस्थाप्य शीघ्रं प्रस्थितः ।

अथ गच्छन्ग्रीष्मोष्मणा सन्तप्तः कञ्चिन्मार्गस्थं वृक्षमासाद्य, तत्रैव प्रसुप्तः । अत्रान्तरे वृक्ष-कोटरान्निर्गत्य सर्पस्तत्-समीपमागतः । स चाभ्यन्तर-गतां कर्पूर-पुटिकामतिलौल्यादभक्षयत् । सोऽपि कर्कटस्तत्रैव स्थितः सन्सर्प-प्राणानपाहरत । ब्राह्मणेऽपि यावत्प्रबुद्धः पश्यति, तावत्समीपे मृत-कृष्ण-सर्पो निज-पार्श्वे कर्पूर-पुटिकोपरि स्थितस्तिष्ठति । तं दृष्ट्वा व्यचिन्तयत्-कर्कटेनायं हतः इति । प्रसन्नो भूत्वाब्रवीच्च-भोः ! सत्यमभिहितं मम मात्रा यत्पुरुषेण कोऽपि सहायः कार्यः । नैकाकिना गन्तव्यम् । यतो मया श्रद्धा-पूरित-चेतसा तद्-वचनमनुष्ठितं तेनाहं कर्कटेन सर्व-व्यापादनाद्रक्षितः । अथवा साध्विदमुच्यते—

Verse 97
क्षीणः श्रयति शशी रविम् ऋद्धो वर्धयति पयसां नाथम् । अन्ये विपदि सहाया धनिनां श्रियमनुभवन्त्यन्ये ॥
Metre: आर्या (१२, १८, १२, १५)

Verse 98
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ । यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥
Metre: अनुष्टुप्

एवम्श्रुत्वा सुवर्णसिद्धिस्तमनुज्ञाप्य स्वगृहं प्रति निवृत्तः ।

इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे अपरीक्षित-कारकं नाम पञ्चमं तन्त्रं समाप्तम् । ।

Showing 361 to 367 of 367 verses