अतोऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (९२)इति ।
चक्रधर आह—सत्यमेतत् । तद्गच्छ गृहम् । परमेकाकिना न गन्तव्यम् । उक्तं च—
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् । एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥
Metre: अनुष्टुप्
अपि कापुरुषो मार्गे द्वितीयः क्षेम-कारकः । कर्कटेन द्वितीयेन जीवितं परिरक्षितम् ॥
Metre: अनुष्टुप्
सुवर्ण-सिद्धिः प्राह-कथमेतत् ?
कथा १४ ब्राह्मण-कर्कटक-कथा
कस्मिंश्चिदधिष्ठाने ब्रह्मदत्त-नामा ब्राह्मणः प्रतिवसति स्म । स च प्रयोजन-वशाद्ग्रामं प्रस्थितः स्व-मात्राभिहितः, यद्-वत्स ! कथमेकाकी व्रजसि ? तदन्विष्यतां कश्चिद्द्वितीयः सहायः ।
स आह—अम्ब ! मा भैषीः । निरुपद्रवोऽयं मार्गः । कार्य-वशादेकाकी गमिष्यामि ।