पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 331 to 340 of 367 verses
Verse 93
यदि स्याच्छ्री-तलो वह्निश्चन्द्रमा दहनात्मकः । सुस्वादः सागरः स्त्रीणां तत्-सतीस्त्वं प्रजायते ॥
Metre: अनुष्टुप्

अथान्येद्युस्त्रिस्तन्या मन्थरकोऽभिहितः-भोः सुभग ! यद्येषोऽन्धः कथञ्चित्व्यापाद्यते, तदावयोः सुखेन कालो याति । तदन्विष्यतां कुत्रचिद्विषम्, येनास्मै तत्प्रदाय सुखिनी भवामि ।

अन्यदा कुब्जकेन परिभ्रमता मृतः कृष्णसर्पः प्राप्तः । तं गृहीत्वा प्रहृष्ट-मना गृहमभ्येत्य तामाह-सुभगे ! लब्धोऽयं कृष्ण-सर्पः । तदेनं खण्डशः कृत्वा प्रभूत-शुण्ठ्य्-आदिभिः संस्कार्यास्मै विकल-नेत्राय मत्स्यामिषं भणित्वा प्रयच्छ येन द्राग्विनश्यति । यतोऽस्य मत्स्यामिषं सदा प्रियम् । एवमुक्त्वा मन्थरको बहिर्गतः ।

सापि प्रदीप्ते वह्नौ कृष्ण-सर्पं खण्डशः कृत्वा तक्र-स्थाल्यामाधाय गृह-व्यापाराकुला तं विकलाक्षं स-प्रश्रयमुवाच-आर्य-पुत्र ! तवाभीष्टं मत्स्य-मांसं समानीतम् । यतस्त्वं सदैव तत्पृच्छसि । ते च मत्स्या वह्नौ पावनाय तिष्ठन्ति । तद्यावदहं गृह-कृत्यं करोमि, तावत्त्वं दर्वीमादाय क्षणमेकं तान्प्रचालय ।

सोऽपि तदाकर्ण्य हृष्ट-मनाः सृक्कणी परिलिहन्द्रुतमुत्थाय दर्वीमादाय प्रमथितुमारब्धः । अथ तस्य मत्स्यान्मथ्नतो विष-गर्भ-बाष्पेण संस्पृष्टं नील-पटलं चक्षुर्भ्यामगलत् । असावप्यन्धस्तं बहु-गुणं मन्यमानो विशेषान्नेत्राभ्यां बाष्प-ग्रहणमकरोत् ।

ततो लब्ध-दृष्टिर्जातो यावत्पश्यति, तावत्तक्र-मध्ये कृष्ण-सर्प-खण्डानि केवलान्येवावलोकयति । ततो व्यचिन्तयत्-अहो, किमेतत् ? मम मत्स्यामिषं कथितमासीदनया । एतानि तु कृष्ण-सर्प-खण्डानि । तत्तावद्विजानामि सम्यक्त्रिस्तन्याश्चेष्टितम् । किं मम वधोपाय-क्रमः कुब्जस्य वा ?उताहो अन्यस्य वा कस्यचित् ?एवं विचिन्त्य स्वाकारं गूहयन्नन्धवत्कर्म करोति यथा पुरा ।

अत्रान्तरे कुब्जः समागत्य निःशङ्कतयालिङ्गन-चुम्बनादिभिस्त्रिस्तनीं सेवितुमुपचक्रमे । सोऽप्यन्धस्तमवलोकयन्नपि यावन्न किञ्चिच्छस्त्रं पश्यति, तावत्कोप-व्याकुल-मनाः पूर्ववच्छयनं गत्वा कुब्जं चरणाभ्यां सङ्गृह्य सामर्थ्यात्स्व-मस्तकोपरि भ्रामयित्वा त्रिस्तनीं हृदये व्यताडयत् ।

अथ कुब्ज-प्रहारेण तस्यास्तृतीयः स्तन उरसि प्रविष्टः । तथा बलान्मस्तकोपरि भ्रमणेन कुब्जः प्राञ्जलतां गतः ।

अतोऽहं ब्रवीमि-अन्धकः कुब्जकश्चैव (८४)इति ।

सुवर्णसिद्धिराह-भोः सत्यमेतत् । दैवानुकूलतया सर्वं कल्याणं सम्पद्यते । तथापि पुरुषेण सतां वचनं कार्यम् । पुनरेवमेव वर्तितव्यम् । अथ एवमेव यो वर्तते, स त्वमिव विनश्यति । तथा च—