अथ तेषां तद्-वचनमाकर्ण्य स राजा पटह-शब्देन सर्वत्र घोषणामाज्ञापयामास-अहो ! त्रिस्तनीं राजकन्यां यः कश्चिदुद्वाहयति स सुवर्ण-लक्षमाप्नोति देश-त्यागं च ।
एवं तस्यामाघोषणायां क्रियमाणायां महान्कालो व्यतीतः । न कश्चित्तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त-स्थान-स्थिता यत्नेन रक्ष्यमाणा तिष्ठति ।
अत्र तत्रैव नगरे कश्चिदन्धस्तिष्ठति । तस्य च मन्थरक-नामा कुब्जोऽग्रेसरो यष्टि-ग्राही । ताभ्यां तं पटह-शब्दमाकर्ण्य, मिथो मन्त्रितं-स्पृश्यतेऽयं पटहः । यदि कथमपि दैवात्कन्या लभ्यते । सुवर्ण-प्राप्तिश्च भवति, तथा सुखेन सुवर्ण-प्राप्त्या कालो व्रजति । अथ यदि तस्य दोषतो मृत्युर्भवति । तदा दारिद्र्योपात्तस्यास्य क्लेशस्य पर्यन्तो भवति । उक्तं च—
लज्जा स्नेहः स्वर-मधुरता बुद्धयो यौवन-श्रीः कान्तासङ्गः स्वजन-ममता दुःख-हानिर्विलासः । धर्मः शास्त्रं सुर-गुरु-मतिः शौचमाचार-चिन्ता पूर्णे सर्वे जठर-पिठरे प्राणिनां सम्भवन्ति ॥
Metre: मन्दाक्रान्ता
एवमुक्त्वान्धेन गत्वा, स पटहः स्पृष्टः । उक्तं च-भोः !अहं तां कन्यामुद्वाहयामि, यदि राजा मे प्रयच्छति ।
ततस्तै राज-पुरुषैर्गत्वा राज्ञे निवेदितम्-देव !अन्धेन केनचित्पटहः स्पृष्टः । तदत्र विषये देवः प्रमाणम् ।
अन्धो वा वधिरो वाथ कुष्टी वाप्यन्त्यजोऽपि वा । परिगृह्णातु तां कन्यां स-लक्षां स्याद्विदेशगः ॥
Metre: अनुष्टुप्
अथ राजादेशात्तै राज-पुरुषैस्तं नदी-तीरे नीत्वा सुवर्ण-लक्षेण समं विवाह-विधिना त्रिस्तनीं तस्मै दत्त्वा, जल-याने निधाय कैवर्ताः प्रोक्ताः-भो ! देशान्तरं नीत्वा कस्मिंश्चिदधिष्ठानेऽन्धः सपत्नीकः । कुब्जकेन सह मोचनीयः ।
तथानुष्ठिते विदेशमासाद्य कस्मिंश्चिदधिष्ठाने कैवर्त-दर्शिते त्रयोऽपि मूल्येन गृहं प्राप्ताः सुखेन कालं नयन्ति स्म । केवलमन्धः पर्यङ्के सुप्तस्तिष्ठति, गृह-व्यापारं मन्थरकः करोति । एवं गच्छता कालेन त्रिस्तन्या कुब्जकेन सह विकृतिः समपद्यत । अथवा साध्विदमुच्यते—