पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 301 to 310 of 367 verses
सुवर्ण-सिद्धिः प्राह-कथमेतत् ?

सोऽब्रवीत्- कथा ११अन्धक-कुब्जक-त्रिस्तनी-कथा

अस्त्यत्र धरा-तल उत्तरा-पथे मधु-पुरं नाम नगरम् । तत्र मधुसेना नाम राजा बभूव । तस्य कदाचिद्विषय-सुखमनुभवतस्त्रिस्तनी कन्या बभूव । अथ तां त्रस्तनीं जातां श्रुत्वा स राजा कञ्चुकिनः प्रोवाच, यद्-भोस्त्यज्यतामियं त्रस्तनी गत्वा दूरेऽरण्ये यथा कश्चिन्न जानाति ।

तच्छ्रुत्वा कञ्चुकिनः प्रोचुः-महाराज ज्ञायते यदनिष्ट-कारिणी त्रिस्तनी कन्या भवति । तथापि ब्राह्मणमाहूय प्रष्टव्याः, येन लोक-द्वयं न विरुध्यते, यतः—

Verse 87
यः सततं परिपृच्छति शृणोति सन्धारयत्यनिशम् । तस्य दिवाकर-किरणैर्नलिनीव विवर्धते बुद्धिः ॥
Metre: उपगीति (१२, १५, १२, १५)

तथा च—

Verse 88
पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्र-गृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥
Metre: अनुष्टुप्

राजा आह—-कथमेतत् ?

ते प्रोचुः—

कथा १२ चण्डकर्म-नाम-राक्षस-कथा

Showing 301 to 310 of 367 verses