एवं चिन्तयत इष्ट-देवतां स्मरतस्तस्य सोऽश्वो बट-वृक्षस्य तले निष्क्रान्तः । चौरोऽपि बट-प्ररोहमासाद्य तत्रैव विलग्नः । ततो द्वावपि तौ पृथग्-भूतौ परमानन्द-भाजौ जीवित-विषये लब्ध-प्रत्याशौ सम्पन्नौ ।
अथ तत्र बटे कश्चिद्राक्षस-सुहृद्वानरः स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्-भो मित्र ! किमेव अलाय्यतेऽलीक-भयेन ? तद्भक्ष्योऽयं मानुषः भक्ष्यताम् ।
सोऽपि वानर-वचो निशम्य, स्वरूपमाधाय शङ्कित-मनाः स्खलित-गतिर्निवृत्तः । चौरोऽपि तं वानराहूतं ज्ञात्वा कोपात्तस्य लाङ्गुलं लम्बमानं मुखे निधाय चर्वितवान् ।
वानरोऽपि तं राक्षसाभ्यधिकं मन्यमानो भयान्न किञ्चिदुक्तवान् । केवलं व्यथार्तो निमीलित-नयनस्तिष्ठति । राक्षसोऽपि तं तथा-भूतमवलोक्य श्लोकमेनमपठत्—
यादृशी वचन-च्छाया दृश्यते तव वानर । विकालेन गृहीतोऽसि यः परैति स जीवति ॥
Metre: अनुष्टुप्
इत्युक्त्वा प्रणष्टश्च । तत्प्रेषय मां येन गृहं गच्छामि । त्वं पुनरनुभुङ्क्ष्वात्र स्थित एव लोभ-वृक्ष-फलम् ।
चक्रधर आह—भोः अकारणमेतत् । दैव-वशात्सम्पद्यते नृणां शुभाशुभम् । उक्तं च—
दुर्गस्त्रिकूटः परिखा समुद्रो रक्षांसि योधा धनदाच्च वित्तम् । शास्त्रं च यस्योशनसा प्रणीतं स रावणो दैव-वशाद्विपन्नः ॥
Metre: उपजातिः
अन्धकः कुब्जकश्चैव त्रिस्तनी राज-कन्यका । त्रयोऽप्यन्यायतः सिद्धाः संमुखे कर्मणि स्थिते ॥
Metre: अनुष्टुप्