अतोऽहं ब्रवीमि-सतां वचनमादिष्टम् (७४)इति ।
अथ तच्छ्रुत्वा मकरः प्राह—
उपदेश-प्रदातॄणां नराणां हितमिच्छताम् । परस्मिन्निह लोके च व्यसनं नोपपद्यते ॥
Metre: अनुष्टुप्
तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेश-प्रदानेन । उक्तं च—
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ॥
Metre: अनुष्टुप्
तदाकर्ण्य वानरः प्राह-भद्र ! यद्येवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च—
हतस्त्वं प्राप्स्यसि स्वर्गं जीवन्गृहमथो यशः । युध्यमानस्य ते भावि गुण-द्वयमनुत्तमम् ॥
Metre: अनुष्टुप्
उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचमल्प-प्रदानेन सम-शक्तिं पराक्रमैः ॥
Metre: अनुष्टुप्
सोऽब्रवीत्- कथा १४ महाचतुरकाख्य-शृगाल-कथा