ये नृशंसा दुरात्मनः प्राणिनां प्राण-नाशकाः । उद्वेजनीया भूतानां व्याला इव भवन्ति ते ॥
Metre: अनुष्टुप्
स पञ्जरकमादाय पाशं च लगुडं तथा । नित्यमेव वनं याति सर्व-प्राणि-विहिंसकः ॥
Metre: अनुष्टुप्
अन्येद्युर्भ्रमतस्तस्य वने कापि कपोतिका । जाता हस्त-गता तां स प्राक्षिपत्पञ्ज्चरान्तरे ॥
Metre: अनुष्टुप्
अथ कृष्णा दिशः सर्वा वनस्थस्याभवन्घनैः वात-वृष्टिश्च महतो क्षय-काल इवाभवत् ॥
Metre: अनुष्टुप्
ततः स त्रस्त-हृदयः कम्पमानो मुहुर्मुहुः । अन्वेषयन्परित्राणमाससाद वनस्पतिम् ॥
Metre: अनुष्टुप्
मुहूर्तं पश्यते यावद्वियद्विमल-तारकम् । प्राप्य वृक्षं वदत्येवं योऽत्र तिष्ठति कश्चन ॥
Metre: अनुष्टुप्
तस्याहं शरणं प्राप्तः स परित्रातु मामिति । शीतेन भिद्यमानं च क्षुधया गत-चेतनम् ॥
Metre: अनुष्टुप्
अथ तस्य तरोः स्कन्धे कपोतः सुचिरोषितः । भार्या-विरहितस्तिष्ठन्विललाप सुदुःखितः ॥
Metre: अनुष्टुप्
वात-वर्षो महानासीन्न चागच्छति मे प्रिया । तया विरहितं ह्येतच्छून्यमद्य गृहं मम ॥
Metre: अनुष्टुप्