पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 291 to 300 of 451 verses
तथा च—

Verse 116
आपत्-काले तु सम्प्राप्ते यन्मित्रं मित्रमेव तत् । वृद्धि-काले तु सम्प्राप्ते दुर्जनोऽपि सुहृद्भवेत् ॥
Metre: अनुष्टुप्

तन्ममाप्यद्यास्य विषये विश्वासः समुत्पन्नो यतो नीति-विरुद्धेयं मैत्री मांसाशिभिर्वायसैः सह जलचराणाम् । अथवा साध्विदमुच्यते—

Verse 117
मित्रं कोऽपि न कस्यापि नितान्तं न च वैर-कृत् । दृश्यते मित्र-विध्वस्तात्कार्याद्वैरी परीक्षितः ॥
Metre: अनुष्टुप्

तत्स्वागतं भवतः । स्व-गृह-वदास्यतामत्र सरस्-तीरे । यच्च वित्त्-नाशो विदेश-वासश्च ते सञ्जातस्तत्र विषये सन्तापो न कर्तव्यः । उक्तं च—

Verse 118
अभ्रच्-छाया खल-प्रीतिः समुद्रान्ते च मेदिनी । अल्पेनैव विनश्यन्ति यौवनानि धनानि च ॥
Metre: अनुष्टुप्

अत एव विवेकिनो जितात्मानो धन-स्पृहां न कुर्वन्ति । उक्तं च—

Verse 119
सुसञ्चितैर्जीवनवत्सुरक्षितैर्निजेऽपि देहे न वियोजितैः क्वचित् । पुंसो यमान्तं व्रजतोऽपि निष्ठुरैर् एतैर्धनैः पञ्चपदी न दीयते ॥
Metre: उपजातिः

अन्यच्च—

Verse 120
यथामिषं जले मत्स्यैर्भक्ष्यते श्वापदैर्भुवि । आकाशे पक्षिभिश्चैव तथा सर्वत्र वित्तवान् ॥
Metre: अनुष्टुप्

Showing 291 to 300 of 451 verses