इत्युक्ते तयान्योऽयमिति मत्वा धवल-गृहादुत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावदसौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित्स्वैरिण्या दत्त-सङ्केतको यावद्दण्ड-पाशकः प्राप्तः, तावदसौ पूर्व-सुप्तस्तेन दृष्टो रहस्य-संरक्षणार्थमभिहितश्च-को भवान् ?
सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः ।
इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच्छून्यं देव-गृहमिदम् । तदत्र मदीय-स्थाने गत्वा स्वपिहि ।
तथा प्रतिपद्य स मतिर्विपर्यासादन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एवायमस्मद्-वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तमाह-किमद्यापि मया सह विश्रब्धं भवान्न ब्रवीति ।
सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः ।
इति श्रुत्वा तया चिन्तितम्-यत्कार्यमसमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य स-विषादया तया निःसारितोऽसौ । स च यावद्-वीथी-मार्गेण गच्छति तावदन्य-विषय-वासी वर-कीर्तिर्नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः ।
अथ यावत्प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन्मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकमाकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः ।
अथास्मिन्नवसरे भय-तरल-लोचनामेकाकिनीं कन्यामवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर्हस्तिनं निर्भर्त्सितवान् । ततः कथमपि दैव-योगादपाये हस्तिनि स-सुहृद्-बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर्नागत्य तावत्तां कन्यामन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धमिदं त्वयानुष्ठितं यन्मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति ।
सोऽब्रवीत्-भोः !अहमपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किमिदं वृतमित्यभिधाय दुहितरं प्रष्टुमारब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोऽयं वृत्तान्तः ।
सोऽब्रवीत्-यदहमनेन प्राण-संशयाद्रक्षिता, तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति ।