पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 271 to 280 of 451 verses
इत्युक्ते तयान्योऽयमिति मत्वा धवल-गृहादुत्तार्य मुक्तः । स तु खण्ड-पाशकः प्राप्तः । तावदसौ खण्ड-देव-कुले गत्वा सुप्तः । अथ तत्र कयाचित्स्वैरिण्या दत्त-सङ्केतको यावद्दण्ड-पाशकः प्राप्तः, तावदसौ पूर्व-सुप्तस्तेन दृष्टो रहस्य-संरक्षणार्थमभिहितश्च-को भवान् ?

सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः ।

इति श्रुत्वा दण्ड-पाशकेनाभिहितम्-यच्छून्यं देव-गृहमिदम् । तदत्र मदीय-स्थाने गत्वा स्वपिहि ।

तथा प्रतिपद्य स मतिर्विपर्यासादन्य-शयने सुप्तः । अथ तस्य रक्षकस्य कन्या विनयवती नाम रूप-यौवन-सम्पन्ना कस्यापि पुरुषस्यानुरक्ता सङ्केतं दत्त्वा तत्र शयने सुप्तासीत् । अथ सा तमायातं दृष्ट्वा स एवायमस्मद्-वल्लभ इति रात्रौ घनतरान्धकार-व्यामोहितोत्थाय भोजनाच्छादनादि-क्रियां कारयित्वा गान्धर्व-विवाहेनात्मानं विवाहयित्वा तेन समं शयने स्थिता विकसित-वदन-कमला तमाह-किमद्यापि मया सह विश्रब्धं भवान्न ब्रवीति ।

सोऽब्रवीत्-प्राप्तव्यमर्थं लभते मनुष्यः ।

इति श्रुत्वा तया चिन्तितम्-यत्कार्यमसमीक्षितं क्रियते तस्येदृक्-फल-विपाको भवति इति । एवं विमृश्य स-विषादया तया निःसारितोऽसौ । स च यावद्-वीथी-मार्गेण गच्छति तावदन्य-विषय-वासी वर-कीर्तिर्नाम वरो महता वाद्य-शब्देनागच्छति । प्राप्तव्यमर्थोऽपि तैः समं गन्तुमारब्धः ।

अथ यावत्प्रत्यासन्ने लग्न-समये राज-मार्गासन्न-श्रेष्ठि-गृह-द्वारे रचित-मण्डप-वेदिकायां कृत-कौतुक-मङ्गल-वेशा वणिक्-सुतास्ति, तावन्मद-मत्तो हस्त्य्-आरोहकं हत्वा प्रणश्यज्-जन-कोलाहलेन लोकमाकुलयंस्तमेवोद्देशं प्राप्तः । तं च दृष्ट्वा सर्वे वरानुयायिनो वरेण सह प्रणश्य दिशो जग्मुः ।

अथास्मिन्नवसरे भय-तरल-लोचनामेकाकिनीं कन्यामवलोक्य-मा भैषीः । अहं परित्रातेति सुधीरं स्थिरीकृत्य दक्षिण-पाणौ सङ्गृह्य महा-साहसिकतया प्राप्तव्यमर्थः पुरुष-वाक्यैर्हस्तिनं निर्भर्त्सितवान् । ततः कथमपि दैव-योगादपाये हस्तिनि स-सुहृद्-बान्धवेनातिक्रान्त-लग्न-समये वर-कीर्तिर्नागत्य तावत्तां कन्यामन्य-हस्त-गतां दृष्ट्वाभिहितम्-भोः श्वशुर, विरुद्धमिदं त्वयानुष्ठितं यन्मह्यं प्रदाय कन्यान्यस्मै प्रदत्ता इति ।

सोऽब्रवीत्-भोः !अहमपि हस्ति-भय-पलायितोभवद्भिः सहायातो न जाने किमिदं वृतमित्यभिधाय दुहितरं प्रष्टुमारब्धः-वत्से, न त्वया सुन्दरं कृतम् । तत्कथ्यतां कोऽयं वृत्तान्तः ।

सोऽब्रवीत्-यदहमनेन प्राण-संशयाद्रक्षिता, तदेनं मुक्त्वा मम जीवन्त्या नान्यः पाणिं ग्रहीष्यति इति ।

Showing 271 to 280 of 451 verses