स्त्रियं च यः प्रार्थयते सन्निकर्षं च गच्छति । ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥
Metre: अनुष्टुप्
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च । मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति सर्वदा ॥
Metre: अनुष्टुप्
नासां कश्चिदगम्योऽस्ति नासां च वयसि स्थितिः । विरूपं रूपवन्तं वा पुमानित्येव भुज्यते ॥
Metre: अनुष्टुप्
रक्तो हि जायते भोग्यो नारीणां शाटिका यथा । घृष्यन्ते यो दशालम्बी नितम्बे विनिवेशितः ॥
Metre: अनुष्टुप्
अलक्तिको यथा रक्तो निष्पीड्य पुरुषस्तथा । अबलाभिर्बलाद्रक्तः पाद-मूले निपात्यते ॥
Metre: अनुष्टुप्
एवं स राजा बहुविधं विलप्य तत्-प्रभृति दन्तिलस्य प्रसाद-पराङ्मुखः संजातः । किं बहुना राज-द्वार-प्रवेशोऽपि तस्य निवारितः । दन्तिलोऽप्यकस्मादेव प्रसाद-पराङ्मुखमवनिपतिमवलोक्य चिन्तयामास-अहो साधु चेदमुच्यते—
कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नामा राज्ञां प्रियः । कः कालस्य न गोचरान्तर-गतः कोऽर्थी गतो गौरवं को वा दुर्जन-वागुरासु पतितः क्षेमेण यातः पुमान् ॥
Metre: शार्दूलविक्रीडितम्
काके शौचं द्यूत-कारेषु सत्यं सर्पे क्षान्तिः स्त्रीषु कामोपशान्तिः । क्लीबे धैर्यं मद्यपे तत्त्व-चिन्ता राजा मित्रं केन दृष्टं श्रुतं वा ॥
Metre: शालिनी
अपरं मयास्य भूपतेरथवान्यस्यापि कस्यचिद्राज-सम्बन्धिनः स्वप्नेऽपि नानिष्टं कृतम् । तत्किमेतत्-पराङ्मुखो मां प्रति भूपतिः इति ।