संजीवक आह—कथमेतत् ? सोऽब्रवीत्—
अस्त्यत्र धरातले वर्धमानं नाम नगरम् । तत्र दन्तिलो नाम नाना-भाण्ड-पतिः सकल-पुर-नायकः प्रतिवसति स्म । तेन पुर-कार्यं नृप-कार्यं च कुर्वता तुष्टिं नीतास्तत्-पुर-वासिनो लोका नृपतिश्च । किं बहुना, न कोऽपि तादृक्केनापि चतुरो दृष्टो श्रुतो वा । अथवा सत्यमेतदुक्तम्—
नरपति-हित-कर्ता द्वेष्यतां याति लोके जनपद-हित-कर्ता त्यज्यते पार्थिवेन्द्रैः । इति महति विरोधे वर्तमाने समाने नृपति-जन-पदानां दुर्लभः कार्य-कर्ता ॥
Metre: मालिनी
अथैवं गच्छति काले दनित्लस्य कदाचिद्विवाहः सम्प्रवृत्तः । तत्र तेन सर्वे पुर-निवासिनो राज-संनिधि-लोकाश्च सम्मान-पुरःसरमामन्त्र्य भोजिता वस्त्रादिभिः सत्-कृताश्च । ततो विवाहानन्तरं राजा सान्तःपुरः स्व-गृहमानीयाभ्यर्चितः । अथ तस्य नृपतेर्गृह-सम्मार्जन-कर्ता गोरम्भो नाम राज-सेवको गृहायातोऽपि तेनानुचित-स्थान उपविष्टोऽवज्ञायार्ध-चन्द्रं दत्त्वा निःसारितः । सोऽपि ततः प्रभृति निश्वसन्नपमानान्न रात्रावप्यधिशेते । कथं मया तस्य भाण्डपते राज-प्रसाद-हानिः कर्तव्या इति चिन्तयन्नास्ते । अथवा किमनेन वृथा शरीर-शोषणेन । न किंचिन्मया तस्यापकर्तुं शक्यमिति । अथवा साध्विदमुच्यते—
यो ह्यपकर्तुमशक्तः कुप्यति किमसौ नरोऽत्र निर्लज्जः । उत्पतितोऽपि हि चणकः शक्तः किं भ्राष्ट्रकं भङ्क्तुम् ॥
Metre: आर्या (१२, १८, १२, १५)
अथ कदाचित्प्रत्यूषे योग-निद्रां गतस्य राज्ञः शय्यान्ते मार्जनं कुर्वन्निदमाह-अहो दन्तिलस्य महद्दृप्तत्वं यद्राज-महिषीमालिङ्गति ।
तच्छ्रुत्वा राजा स-सम्भ्रममुत्थाय तमुवाच-भो भो गोरम्भ । सत्यमेतत्यत्त्वया जल्पितम् । किं दन्तिलेन समालिङ्गिता इति ।
गोरम्भः प्राह-देव ! रात्रि-जागरणेन द्यूतासक्तस्य मे बलान्निद्रा समायाता । तन्न वेद्मि किं मयाभिहितम् । राजा सेर्ष्यं स्व-गतम्-एष तावदस्मद्-गृहेऽप्रतिहत-गतिस्तथा दन्तिलोऽपि । तत्कदाचिदनेन देवी समालिङ्ग्यमाना दृष्टा भविष्यति । तेनेदमभिहितम् । उक्तं च—
यद्वाञ्छति दिवा मर्त्यो वीक्षते वा करोति वा । तत्स्वप्नेऽपि तद्-अभ्यासाद्ब्रूते वाथ करोति वा ॥
Metre: अनुष्टुप्