पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 261 to 270 of 1051 verses
तथा च—

Verse 145
शुभं वा यदि पापं यन्नॄणां हृदि संस्थितम् । सुगूढमपि तज्ज्ञेयं स्वप्न-वाक्यात्तथा मदात् ॥
Metre: अनुष्टुप्

Verse 146
अथवा स्त्रीणां विषये कोऽत्र सन्देहः । जल्पन्ति सार्धमन्येन पश्यन्त्यन्यं स-विभ्रमाः । हृद्-गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥

अन्यच्च—

Verse 147
एकेन स्मित-पाटलाधर-रुचो जल्पन्त्यनल्पाक्षरं वीक्षन्तेऽन्यमितः स्फुटत्-कुमुदिनी-फुल्लोल्लसल्-लोचनाः । दूरोदार-चरित्र-चित्र-विभवं ध्यायन्ति चान्यं धिया केनेत्थं परमार्थतोऽर्थवदिव प्रेमास्ति वाम-भ्रुवाम् ॥
Metre: शार्दूलविक्रीडितम्

तथा च—

Verse 148
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः । नान्तकः सर्व-भूतानां न पुंसां वाम-लोचना ॥
Metre: अनुष्टुप्

Verse 149
रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद नारीणां सतीत्वमुपजायते ॥
Metre: अनुष्टुप्

Verse 150
यो मोहान्मन्यते मूढो रक्तेयं मम कामिनी । स तस्या वशगो नित्यं भवेत्क्रीडा-शकुन्तवत् ॥
Metre: अनुष्टुप्

Verse 151
तासां वाक्यानि कृत्यानि स्वल्पानि सुगुरूण्यपि । करोति सः कृतैर्लोके लघुत्वं याति सर्वतः ॥
Metre: अनुष्टुप्

Showing 261 to 270 of 1051 verses